________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(२) मणूसाणं भंते ! केवतिया वेउव्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०- बल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं संखेज्जा समए समए अवहीरमाणा अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहिया सिया । मुक्केल्लया जहा ओहिया ओरालियाणं ।
२७०
(३) मणूसाणं भंते ! केवइया आहारयसरीरा पन्नता ? गो० ! दुविहा पण्णत्ता । सप्तमवर्गस्य त्वधस्तात् प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि । अथवा किमेतैरस्फुटैः प्रकारैः, स्फुटतरमेव प्रकारमाह- अहवणमित्यस्य शब्दस्य सपाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्नो गुणतो भवति प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः । अथ कोऽयं षष्ठो वर्गः कश्च पञ्चम इति ?, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः, तत्रैकवर्गस्य वर्ग एक एव भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्ग : ४, चतुर्णां वर्ग: षोडशेति द्वितीयो वर्ग : १६ । षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६ | अस्य राशेर्वर्गः पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्गः ६५५३६ । अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते
चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ । अउणावन्नं लक्खा सत्तहिं चेव य सहस्सा ||१|| दो य सया छन्नउया पंचमग्गो इमो विणिद्दिट्ठो (
) त्ति ।
अङ्कतोऽप्येष दर्श्यते- ४२९४९६७२९६ । अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते
लक्ख कोडाकोडीण चउरसीयं भवे सहस्साइं । चत्तारि य सत्तट्टा हुंति सया कोडकोडी ||१|| चोयालं लक्खाई कोडीणं सत्त चेव य सहस्सा | तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ॥ २॥ पंचाणउई लक्खा गावन्नं भवे सहस्साइं । छस्सोलसोत्तरसया एसो छट्टो हवइ वग्गो || ३ || (
) अङ्कतोऽपि दर्श्यते - १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । सा चेयम् - ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ । अयं च राशि : कोटीकोट्यादिप्रकारेण केनाप्यभिधातुं न शक्यते, अतः पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थं गाथाद्वयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org