________________
श्रीअनुयोगद्वारसूत्रम् [सू०४२३]
२७१ तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओहिया ओरालियाणं ।
(४) तेयग-कम्मगसरीरा जहा एतेसिं चेव ओहिया ओरालिया तहा भाणियव्वा । छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिन्नि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिन्नेव तिन्नेव ॥१।। चउ छ हो चउ एक्को पण दो छक्केक्कगो य अढेव । दो दो नव सत्तेव य अंकट्टाणा पराहुत्ता ॥२॥ ( ) तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् ।
अमुमेवार्थं प्रकारान्तरेणाह- अहवणं छन्नउईच्छेयणगदाई रासि त्ति, छेदनकं राशेरर्धीकरणम्, तत: षण्णवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः । स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः । अयं हि पुन: पुनश्छिद्यमानोऽर्दीक्रियमाण: षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते । कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते ? उच्यते- प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि- चतुर्णामः द्वौ, तयोरप्यढे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् । द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ, चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अत: पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि । तदेवं जघन्यपदमुक्तम् । ___ अथोत्कृष्टपदमभिधित्सुराह- उक्कोसपए असंखेज्ज त्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्खयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभ:प्रदेशश्रेणिरपह्रियते, कियता कालेनेत्याहअसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह- अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णन्ति, श्रेणेरङ्गुलप्रमाणे क्षेत्रे य: प्रदेशराशिस्तस्य यत् प्रथम वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च य: प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं प्रतिसमयमपहरति, इदमुक्तं भवति- श्रेणेमध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपह्रियते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org