________________
२७२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४२४) (१) वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं ।
(२) वाणमंतराणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई, संखेजजोयणसयवग्गपलिभागो पतरस्स। मुक्केल्लया जहा ओहिया ओरालियाणं ।
(३) आहारगसरीरा दुविहा वि जहा असुरकुमाराणं ।
(४) वाणमंतराणं भंते ! केवइया तेयग-कम्मगसरीरा पं० ? गो० ! जहा एएसिं चेव वेउब्वियसरीरा तहा तेयग-कम्मगसरीरा वि भाणियव्वा।
(सू० ४२५) (१) जोइसियाणं भंते ! केवइया ओरालियसरीरा पं० ? गो० ! जहा नेरइयाणं तहा भाणियव्वा । यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भज-संमूर्छजमनुष्याणामेतावतामेव भावादिति । तदेवं मनुष्याणां बद्धान्यौदारिकशरीराण्युक्तानि, मुक्तानि त्वोघवद् वाच्यानि।।
अथ वैक्रियाण्याह- केवइया वेउव्वियसरीरा इत्यादि, वैक्रियाण्यमीषां सङ्खयेयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु, तत्रापि पृच्छासमये कियत्स्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि सङ्ख्येयेन कालेनापह्रियन्ते, मुक्तान्योघवद्वाच्यानि । आहारकाणि तु बद्धानि मुक्तानि च यथौघिकानि तथैव । तैजस-कार्मणानि तु यथैषामेवौदारिकाणि ।
व्यन्तराणां सर्वं नारकवद्वाच्यम् । नवरं नारकेभ्यो व्यन्तराणामसङ्खयेयगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्या विशेष इत्याह- तासि णं सेढीणमित्यादि, तासामसङ्ख्येयानां श्रेणीनां विष्कम्भसूचि: पूर्वोक्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेषः । सा च पूर्वोक्तायाः पञ्चेन्द्रियतिर्यविष्कम्भसूचेरसङ्ख्येयगुणहीना द्रष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्येयगुणहीनत्वेन महादण्डके पठितत्वात् । कियता पुन: प्रतिभागेन व्यन्तरा: सर्वं प्रतरमपहरन्तीत्याह- संखेज्जजोयणेत्यादि, सङ्ख्येययोजनशतानां यो वर्गस्तद्रूपो य: प्रतिभाग: अंश:, कस्येत्याह- प्रतरस्य । इदमुक्तं भवति- सङ्ख्येययोजनशतवर्गरूपं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपहियते, यदि वा तावति भागे एकैकस्मिन् व्यन्तरे व्यवस्थाप्यमाने सर्वोऽपि प्रतर: पूर्यते ।
ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूई स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचे: सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्खयेयगुणत्वेन महादण्डके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org