________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७७-४७९]
३०१
य
खंधे से देय से से पदेसे नोखं । एवं वयंतं संपयं समभिरूढं एवंभूओ भाइसव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहितं, देसे वि मे अवत्थू अ । सेतं पदेसदिते । सेतं णयप्पमाणे ।
जं जं भणसि
( सू० ४७७ ) से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते । तंजहानामसंखा ठवणसंखा दव्वसंखा ओवमसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा ।
( सू० ४७८ ) से किं तं नामसंखा ? नामसंखा जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा संखा ति णामं कज्जति । सेतं नामसंखा |
( सू० ४७९) से किं तं ठवणासंखा ? ठवणासंखा- जण्णं कटुकम्मे वा पोत्थकम्मे वा चित्तम्मे वा लेप्पकम्मे वा गंथिकम्मे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराड वा एक्को वा अणेगा वा सब्भावठवणाए वा असम्भावठवणाए वा संखा ति ठवणा ठवेज्जति । सेतं ठवणासंखा ।
एते च नया ज्ञानरूपाः, ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद् बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात् पृथगुक्ताः । तदेतत् प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति- तदेतन्नयप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिङ्मात्रदर्शनमेव कृतम्, यावता यत् किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तते इत्यलं बहुजल्पितेनेति ।
इतः क्रमप्राप्तं सङ्ख्याप्रमाणं विवरीषुराह से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठवि पण्णत्ते, तंजहा - नामसंखा इत्यादि । सङ्ख्यानं सङ्ख्या संख्यायते ऽनयेति वा सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम्। इह सङ्ख्याशब्देन सङ्ख्या - शङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशु-भूम्यादिवत् । उक्तं च
गोशब्दः पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् ।
मन्दप्रयोगो दृष्ट्यम्बु- वज्र- स्वर्गाभिधायकः || १ || (
एवमिहापि संखा इति प्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नाम - स्थापना - द्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति । से किं तं नामसंखेत्यादि सर्वं पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् जाणयसरीर-भवियसरीरवइरित्ते दव्वसंखे तिविहे पण्णत्ते इत्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org