________________
३००
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पदेसे आगासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे णोखंधे। एवं वयंतं सद्दणयं समभिरूढो भणति-जं भणसि-धम्मे पदेसे से पदेसे धम्मे जाव खंधे पदेसे से पदेसे नोखंधे, तं न भवइ, कम्हा ? एत्थ दो समासा भवंति, तंजहा-तप्पुरिसे य कम्मधारए य, तं ण णजइ कतरेणं समासेणं भणसि ? किं तप्पुरिसेणं किं कम्मधारएणं ?, जड़ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहिधम्मे य से पदेसे य से से पदेसे धम्मे, अहम्मे य से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, कायैकदेशवृत्तिर्जीवप्रदेशः ? इत्याशङ्क्याह- से पएसे धम्मे त्ति स च प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, (से पएसे नोजीवे)। से पएसे नोखंधे इत्यत्रापि पूर्ववदेवार्थकथनम् ।
एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत् सर्वं समस्तं कृत्स्नं देश-प्रदेशकल्पनारहितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेष तदेवैकत्वान्निरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं नो नानाभिधानाभिधेयम्, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद् धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देश-प्रदेशौ ममावस्तुभूतौ, १२३अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि- प्रदेश-प्रदेशिनो/दो वा स्यादभेदो वा ? यदि प्रथम: पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाभेदस्तर्हि धर्म-प्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नया:, एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम् । उक्तं च स्तुतिकारेण
उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः ।। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।। (सिद्धसेनद्वा० ४।६)
१२३. अखण्डस्यैव वस्तुनः सत्त्वेनोपगमादिति । देशप्रदेशयोरवस्तुभूतत्वसाधनार्थमेवंभूतनयेन दत्तस्यैतस्य हेतोरेतदपि विवरणं शक्यते कर्तुम् । तथाहि- अखण्ड एव घटादिके वस्तुनि यतो जलाहरणाद्यर्थक्रियाकारित्वं वर्ततेऽतस्तस्यैव वस्तुभूतत्वम् । कण्ठमात्ररूपेण पृथुबुध्नादिमात्ररूपेण वा देशेन यतो जलाहरणाद्यर्थक्रिया न शक्यते कर्तुम्, अतोऽर्थक्रियाकारित्वाभावेन देशस्यावस्तुभूतत्वमेव । एवमेव प्रदेशस्याप्यर्थक्रियाकारित्वाभावेनावस्तुभूतत्वं ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org