________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७६]] अधम्मपदेसो वि सिया धम्मपदेसो सिया आगासपएसो सिया जीवपएसो सिया खंधपएसो २, आगासपएसो वि सिया धम्मपदेसो सिया अहम्मपएसो सिया जीवपएसो सिया खंधपएसो ३, जीवपएसो वि सिया धम्मपएसो सिया अधम्मपएसो सिया आगासपएसो सिया खंधपएसो ४, खंधपएसो वि सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो ५, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वो पदेसो, भणाहि-धम्मे पदेसे से पदेसे धम्मे, अहम्मे पदेसे से पदेसे अहम्मे, आगासे पदेसे से जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सन् तत्प्रदेशो धर्मात्मक उच्यत इति भावः । अधर्मा-ऽऽकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम् । जीवास्तिकाये तु जीवे पएसे से पएसे नोजीवे त्ति, जीव: प्रदेश इति जीवास्तिकायात्मक: प्रदेश इत्यर्थः, स च प्रदेशो नोजीव:, नोशब्दस्यैकदेशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः । एवं स्कन्धात्मक: प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात् तदेकदेशवृत्तिरित्यर्थः । ___ एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह- यद् भणसि धर्म: प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह- इह खलु द्वौ समासौ भवतः, तद्यथा- तत्पुरुषश्च कर्मधारयश्च । इदमुक्तं भवति- धम्मे पएसे से पएसे धम्मे इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र संभाव्यते, तथाहि- यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ? उच्यते, समासारम्भकवाक्ययो: समासोपचारात्, अथवा अलुक्समासविवक्षया समासावप्येतौ भवतः, यथा कण्ठेकाल इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्तत: किमित्याह- तन्न ज्ञायते कतरेण समासेन भणसि? किं तत्पुरुषेण कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादिति शेष:, स चायं दोषो ‘धर्मे प्रदेशः' इति भेदापत्ति:, यथा कुण्डे बदराणीति, न च प्रदेश-प्रदेशिनौ भेदेनोपलभ्येते, अथवा अभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोष: स्यात् । अथ कर्मधारयेण भणसि, ततो विशेषेण भण- धम्मे य से पएसे य से त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारयः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भाव: । आह- नन्वयं प्रदेश: समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् यथा जीवास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org