________________
२९८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जं भणसि-पंचविहो पदेसो तं न भवइ, कम्हा ? जइ ते पंचविहो पएसो एवं ते एक्केको पएसो पंचविहो एवं ते पणुवीसतिविहो पदेसो भवति, तं मा भणाहि-पंचविहो पएसो, भणाहि-भतियव्वो पदेसो-सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो । एवं वयंत उजुसुयं संपति सद्दणओ भणति-जं भणसि भइयव्वो पदेसो तं न भवति, कम्हा ? जइ ते भइयव्वो पदेसो एवं ते धम्मपदेसो वि सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो १, अपि तु भण-पञ्चविध: पञ्चप्रकार: प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह- धर्मप्रदेश इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति- यद् भणसि पञ्चविध: प्रदेश: तन्न भवति, कस्मात् ? यस्माद्यदि ते पञ्चविध: प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पञ्चविधः प्राप्त:, शब्दाद्धि अत्र वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविध: प्रदेश: प्राप्नोति. तन्मा भण- पञ्चविध: प्रदेश:, किन्त्वेवं भण-भाज्य: प्रदेश:, स्याद्धर्मस्येत्यादि, इदमुक्तं भवति- भाज्यो विकल्पनीयो विभजनीय: प्रदेश:, कियद्भिविभागैः ? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेश: सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीय:, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति ।
___ एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद् भणसि भाज्य: प्रदेश: तन्न भवति, कुत: ? यतो यदि भाज्य: प्रदेश:, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेश: स्यात्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्, इत्थमपि भजनाया अनिवारितत्वात्, यथा एकोऽपि देवदत्त: कदाचिद्राज्ञो भृत्य: कदाचिदमात्यादेरिति, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम्, तदेवं १२२ यत्याभावादनवस्था प्रसज्येत, तन्मैवं भण-भाज्य: प्रदेश:, अपि तु इत्थं भण-धम्मे पएसे से पएसे धम्मे इत्यादि, इदमुक्तं भवति- धर्म: प्रदेश इति, धर्मात्मक: प्रदेश इत्यर्थः, अत्राह- नन्वयं प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्त: सन् तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह- से पदेसे धम्मे त्ति स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेश: स नि:शेषजीवास्तिकायैकदेशवृत्तिरेव सन्
१२२. नैयत्याभावादनवरथा प्रसज्येतेतीति । तवाप्यनवस्थादोषः प्रसज्येतेति नार्थः, किन्तर्हि ? तवाप्यव्यवरथादोषः प्रसज्येतेत्यर्थः, विवक्षितः प्रदेशो धर्मास्तिकायस्यैव, तदन्यस्त्वधर्मास्तिकायस्यैवेत्यादि व्यवस्थाया अभावप्रसक्तेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org