________________
२९७
श्रीअनुयोगद्वारसूत्रम् [सू०४७५] वि मे खरो वि मे, तं मा भणाहि-छण्हं पएसो, भणाहि पंचण्हं पएसो, तंजहा-धम्मपएसो अहम्मपएसो आगासपदेसो जीवपएसो खंधपदेसो । एवं वयंतं संगहं ववहारो भणइजं भणसि-पंचण्हं पएसो तं ण भवइ, कम्हा ? जइ जहा पंचण्हं गोट्ठियाणं केइ दव्वजाए सामण्णे, तंजहा-हिरण्णे वा सुवण्णे वा धणे वा धण्णे वा, तो जुत्तं वत्तुं जहा पंचण्हं पएसो, तं मा भणाहि-पंचण्हं पएसो, भणाहि-पंचविहो पएसो, तंजहा-धम्मपदेसो अहम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो। एवं वदंतं ववहारं उज्जुसुओ भणतिप्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तम्, विशेषविवक्षायां तु षट् प्रदेशा: । एवं वदन्तं नैगमं ततो निपुणतर: सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश इति तन्न भवति तन्न युज्यते, कस्मात् ? यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य य: प्रदेश: स वस्तुवृत्त्या तस्यैव द्रव्यस्य सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य हि देशस्य य: प्रदेश: स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह- दासेणेत्यादि, लोकेऽप्येवं व्यवहृतिर्दश्यते, यथा कश्चिदाह- मदीयदासेन खरः क्रीत:, तत्र दासोऽपि मदीय:, खरोऽपि मदीय:, दासस्य मदीयत्वात् तत्क्रीत: खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात् तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भाव:, तस्मान्मा भण-षण्णां प्रदेश:, अपि त्वेवं भण-पञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्यसामान्याद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुत्वसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन ।
प्रकृतमुच्यते- एवं वदन्तं सङ्ग्रहं १२१ततोऽपि निपुणो व्यवहारो भणति- यद् भणसि पञ्चानां प्रदेश इति तन्न भवति न युज्यते, कस्मात् ? यदि यथा पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम् एकं भवति, तद्यथा- हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्येत वक्तुं पञ्चानां प्रदेश इति, इदमुक्तं भवति- यथा केषाञ्चित् पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येक: कश्चित् साधारण: प्रदेश: स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्मा भण-पञ्चानां प्रदेश:,
१२१. ततोऽपि निपुणो व्यवहार इत्यादि । ततश्च ‘सङ्ग्रहाद् व्यवहार एव निपुणः, यद्वा व्यवहारात्सङ्ग्रह एव निपुणः इति नियमेन न किञ्चिदपि वक्तुं पार्यते, प्रस्थकवसतिदृष्टान्तयोर्व्यवहारात् सङ्ग्रहस्य निपुणत्वात्, प्रदेशदृष्टान्ते च सङ्ग्रहाद् व्यवहारस्य निपुणत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org