________________
२९६
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
भणति - पाडलिपुत्ते वसामि । पाडलिपुत्ते अणेगाई गिहाई, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ गमो भणति - देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगा कोट्ठगा, सु सव्वे भवं वससि ? विसुद्धतराओ णेगमो भणति - गब्भघरे वसामि । एवं विसुद्ध स गमस्स वसमाणो वसति । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिन्हं सहनयाणं आयभावे वस । सेतं वसहिदिट्टंतेणं ।
( सू० ४७६ ) से किं तं पदेसदिट्ठतेणं ? पदेसदिट्टंतेणं णेगमो भणति छण्हं पदेसो, तंजा - धम्मपदेसो अधम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो देसपदेसो | एवं वयं गमं संगहो भाइ जं भणसि छण्हं पदेसो तण्ण भवइ, कम्हा ? जम्हा जो सो देसपदेसो सो तस्सेव दव्वस्स, जहा को दिट्ठतो ?, दासेण खरो कीओ दासो यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमानस्तद्व्यतिरेकेण नोपलभ्यते ( भ्येत ) । अथ द्वितीयो विकल्प: स्वीक्रियते तर्हि तत्रापि देशे अनेन वर्त्तितव्यम्, ततः पुनरपि विकल्पद्वयम् - किं सर्वात्मना वर्तते देशात्मना वेति ? सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यम् । ततः पुनरपि तदेव विकल्पद्वयम्, तदेव च दूषणमित्यनवस्था । तस्मात् सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य नि:स्वभावताप्रसङ्गादित्यलं बहुभाषितया । सेत्तमित्यादि निगमनम् ।
से किं तं पएसदिट्टंतेणमित्यादि । प्रकृष्टो देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते तत्र नैगमो भणति षण्णां प्रदेश:, तद्यथा - धम्मपदेसो इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेश: एवमधर्मा-ऽऽकाशजीवास्तिकायेष्वपि योज्यम् । स्कन्ध: पुद्गलद्रव्यनिचयः, तस्य प्रदेश: स्कन्धप्रदेश: । देश : एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेश: । अयं च
I
तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यत एवं देवदत्तादिरप्यभेदसम्बन्धेन तत्राऽऽधीयमानस्तदव्यतिरेकेण नोपलभ्येत । अथ द्वितीयो विकल्पः स्वीक्रियते तर्हि अनवस्थादोषापत्तिः । सा चैवंभेदसम्बन्धस्तत्र वर्तमानः किमभेदसम्बन्धेन वर्तते भेदसम्बन्धेन वा ? यद्याद्यः पक्षस्तर्हि आधेयभूतेनान्येन किमपराद्धं येन स तत्राभेदसम्बन्धेन न वर्तेतेति नाद्यः पक्षः । अथ द्वितीयः पक्षस्तर्हि तस्यापि तत्र भेदसम्बन्धस्याभ्युपगन्तव्यत्वादनवस्थापत्तिः स्पष्टैव । तस्मात्सर्वोऽपि नान्यत्र निवसति, अपि तु स्वस्वभाव एव निवसति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org