________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७५]
२९५ एरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-भरहे वसामि । भरहे वासे दुविहे पण्णत्ते, तंजहादाहिणड्डभरहे य उत्तरड्डभरहे य, तेसु सव्वेसु भवं वससि? विसुद्धतराओ णेगमो भणतिदाहिणड्डभरहे वसामि । दाहिणड्डभरहे अणेगाइं गाम-णगर-खेड-कब्बड-मडंब-दोणमुहपट्टणा-ऽऽगर-संवाह-सण्णिवेसाइं, तेसु सव्वेसु भवं वससि ? विसुद्धतरातो णेगमो चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवम्, प्रोषिते देवदत्ते स इह वसति न वेति केनचित् पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति ।
संगहस्सेत्यादि । प्राक्तनाद् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते । इदमुक्तं भवति- संस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूप वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति। ऋजुसूत्रस्य तु पूर्वस्माद् विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्त्तते ते संस्तारकेणैवाक्रान्ताः ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स च वर्तमानकाल एवास्ति, अतीतानागतयोविनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, १२०तथाहि- अन्योऽन्यत्र वर्तमान: किं सर्वात्मना वर्तते देशात्मना वा ? यद्वा ‘कस्मिन्नगरे स वसती'त्यस्याजिज्ञासितत्वात्, 'कस्मिन् पाटके स वसती'त्यस्यैव सामान्यतयाऽत्र जिज्ञासितत्वात् । ततश्चैतादृशे प्रस्तावे सामान्यतया 'अमुकस्मिन् पाटके वसामी'ति प्रत्युत्तरमेव दीयते, तदेव च व्यवहारस्य मुख्यतया संमतम् । तथापि यद्यत्र 'पाटलिपुत्रे वसामी'त्युत्तरं दीयते, तदा तत्र केनचित्प्रयोजनविशेषेण भवितव्यमेवेति नैगमस्य मुख्यतया संमतत्वेऽपि व्यवहारस्य तु तदुत्तरं मुख्यतयाऽसंमतमेव, सामान्यतया लोकव्यवहारेऽदृश्यमानत्वात् । अतो व्यवहारस्य तदुपचारेणैव संमतमिति निःशङ्कमेवेति नैगमव्यवहारयोर्विशेषाभावाऽऽशङ्कागन्धोऽपि कुतः ?
__ १२०. तथाहि-अन्योऽन्यत्रेत्यादि । यद्वाऽयमप्यत्र युक्तिप्रकारो ज्ञेयः । तथाहि- अन्योऽन्यत्र वर्तमानः किमभेदसम्बन्धेन वर्तते भेदसम्बन्धेन वा ? यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपमभेदसम्बन्धेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org