________________
२९४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं मणपज्जवसाणा असंखेजा दीव-समुद्दा पण्णत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-जंबुद्दीवे वसामि । जंबुद्दीवे दस खेत्ता पण्णत्ता, तंजहा-भरहे एरवए हेमवए एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन् वसति, नान्यथा, इदमुक्तं भवति- यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षित: तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते अतिप्रसङ्गादिति भावः ।१९एवमेवेत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके च नैगमोक्तप्रकारा: सर्वेऽपि दृश्यन्त इति भावः । अथ
११९. एवमेवेत्यादीति । ननु यथा प्रस्थकदृष्टान्ते 'एवमेव ववहारस्सवित्ति अतिदिष्टं, तथैवात्रापीति यथा तत्र ‘प्रस्थकोऽय'मित्येवं नामाङ्कितो निष्पन्नः प्रस्थक एव व्यवहारस्य मुख्यतया प्रस्थकः, तदन्ये तु सर्वेऽप्युपचारत एव, तथैवात्रापि किमुत्तरं व्यवहारस्य मुख्यतया संमतमित्युच्यताम् । शृणु-प्ररथकदृष्टान्ताद् विलक्षणं वसतिदृष्टान्तमिति व्यवहारनयाभिप्रायोऽप्यत्र भिन्न एव । तत्रैक एव मुख्यतया व्यवहारविषयः, अत्र तु प्रायः सर्वाण्यपि मुख्यतया व्यवहारविषयारेणीति । 'क्व वसति भवान् ?' इति प्रश्नकाले पृच्छ्यमानो जनो यत्र क्षेत्रेऽवस्थितस्तत्क्षेत्रं मनसिकृत्य व्यवहारनयः प्रत्युत्तरं ददाति । तद्यथा-मित्रदेवादिसहायेनोर्ध्वलोकं गतवान् यदि केनचित् पृष्टः स्यात्तदा 'तिर्यग्लोके वसामि' इत्युत्तरं व्यवहारस्य मुख्यतयैव संमतं, न तत्र कोऽप्युपचारः । प्रश्नकर्ता 'अहं तिर्यग्लोके वसामी'ति तु कथमपि जानात्येव, परन्तु 'तिर्यग्लोके जम्बूद्वीपादौ कुत्र वसामि ?' इति तु न जानातीति तज्जिज्ञासया प्रश्नं पृच्छतीति पृच्छयमानेन यदि प्रतीयते तदा 'जम्बूद्वीपे वसामी'त्युत्तरमेव व्यवहारस्य मुख्यतया संमतम् । एवमेव पृष्टो जनो यदि नन्दीश्वरद्वीपादिकं गतवान् तत्र च पृष्टः, तदा 'जम्बूद्वीपे वसामी'ति, यदि महाविदेहक्षेत्रे पृष्टस्तदा भरतक्षेत्रे वसामी' ति, एवं यद्युत्तरार्धभरतक्षेत्रे पृष्टस्तदा ‘दक्षिणार्द्धभरते वसामी'ति, एवंक्रमेण पाटलिपुत्रात्, स्वपाटकात्, स्वगृहाद्, स्वापवरकाद्वा बहिर्यदि पृष्टस्तदा यथाक्रमं पाटलिपुत्रे, अमुकस्मिन् पाटके, देवदत्तगृहे, गर्भगृहे वा वसामी'त्युत्तरं यद्दीयते तद्व्यवहारस्य मुख्यतया संमतमिति ध्येयम् । तथा च 'प्रश्नकाले पृच्छयमानस्यावस्थानक्षेत्रं प्रष्टुर्जिज्ञासां वाऽनुसृत्य दीयमानं यत्किमप्युत्तरं तत्सर्वं व्यवहारनयस्य मुख्यतयाऽभिप्रेतं, न तत्र कोऽप्युपचार इति पर्यवसितम् ।
ननु नैगमेन यद्यदुत्तरं दीयते तत्सर्वमपि यदि व्यवहारस्यापि मुख्यतयैव संमतं स्यात्तदा तयोर्विशेषाभावापत्तिरिति चेत् ? न, व्यवहारस्य सर्वस्योत्तरस्य मुख्यतया संमतत्वाभावात् । प्रश्नकाले पाटलिपुत्र एवावस्थितः पृच्छ्यमानो जनः ‘क्व वसति भवान् ?' इति पृष्टे प्रयोजनविशेषो यदि न स्यात्तदा पाटलिपुत्रे वसामी'त्यादिकं तूत्तरं नैव ददाति, प्रष्टुर्जिज्ञासायास्तेनोत्तरेणानुपशमनात्, तस्य पाटलिपुत्रे वसनस्योत्तर श्रवणात्पूर्वमेव प्रष्ट्रा ज्ञातत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org