________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७५]
२९३ विसुद्धतराओ णेगमो भणति-पत्थयं (वि)लिहामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडितओ पत्थओ । एवमेव ववहारस्स वि । संगहस्स चितो मिओ मिजसमारूढो पत्थओ, उजुसुयस्स पत्थयो वि पत्थओ मिजं पि से पत्थओ, तिण्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ । सेतं पत्थयदिटुंतेणं।
(सू० ४७५) से किं तं वसहिदिटुंतेणं ? वसहिदिट्ठतेणं से जहानामए केइ पुरिसे कंचि पुरिसं वदिजा, कहिं भवं वससि ? तत्थ अविसुद्धो णेगमो भणइ-लोगे वसामि। लोगे तिविहे पण्णत्ते, तंजहा-उड्डलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-तिरियलोए वसामि । तिरियलोए जंबुद्दीवादीया सयंभुरस्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यत: शब्दनया उच्यन्ते, आद्यास्तु यथाकथञ्चिच्छब्दा: प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनया: प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयाना प्रस
जी ने अतां त्रयाणां शब्टनयानां प्रस्थकाधिकारजः प्रस्थकस्वरूपपरिजानोपयक्त प्रस्थक. भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽत: स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीव:, उपयोगश्चेत् प्रस्थकादिविषयतया परिणत: किमन्यज्जीवस्य रूपान्तरमस्ति यत्र व्यपदेशान्तरं स्यादिति भावः, जस्स वा वसेणेत्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः, न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निवर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमां च तेऽत्र युक्तिमभिदधति- सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्त्या एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानम्, तत् कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति ? चेतना-ऽचेतनयो: सामानाधिकरण्याभावात्, तस्मात् प्रस्थकोपयुक्त एव प्रस्थकः । सेत्तमित्यादि निगमनम्।
से किं तं वसहीत्यादि । वसति: निवासः, तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित् पुरुष: पाटलिपुत्रादौ वसन्तं कञ्चित् पुरुषं वदेत्- क्व भवान् वसति ? तत्राविशुद्धनैगमो भणति अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनान्तरत्वात् । इत्थमपि च व्यवहारदर्शनात् । विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते ततस्तिर्यग्लोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्रदेवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवं विसुद्धस्स णेगमस्स वसमाणो वसति त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org