________________
२९२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
अविसुद्ध नेगमो भणति - पत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वइज्जाकिं भवं छिंदसि ? विसुद्धतराओ नेगमो भणति - पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वदेज्जा - किं भवं तच्छेसि ? विसुद्धतराओ गमो भणति - पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वदेज्जा - किं भवं उक्तिरसि ? विसुद्धतराओ गमो भणतिपत्थयं उक्तिरामि । तं च केइ (वि) लिहमाणं पासेत्ता वदेज्जा - किं भवं (वि) लिहसि ? भिधत्तेऽसौ- प्रस्थकस्य गच्छामीति । तं च कश्चित् छिन्दन्तम्, वृक्षमिति गम्यते, पश्येत्, दृष्ट्वा च वदेत्- किं भवाँच्छिनत्ति ? ततः प्राक्तनात् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति - प्रस्थकं छिन, अत्रापि कारणे कार्योपचारात्तथाव्यवहतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनद्मीत्युत्तरम्, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वम्, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् । एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया । नवरं तक्ष्णुवन्तं तनूकुर्वन्तम्, उत्किरन्तं वेधनकेन मध्याद्विकिरन्तम्, विलिखन्तं लेखन्या मृष्टं कुर्वाणम् । एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य नामाउडियउत्ति आकुट्टितनामा, प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्रधानो नयः व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिि
भावः ।
संगहस्सेत्यादि, सामान्यरूपतया सर्वं वस्तु संगृह्णाति क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो धान्येन व्याप्त:, स च देशतोऽपि भवत्यत आह- मित: पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितादेराकृतिगणत्वान्मेयसमारूढ: । अयमत्र भावार्थ:- प्राक्तननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः, निष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति ।
उज्जुसुयस्सेत्यादि, ऋजुसूत्र : पूर्वोक्तशब्दार्थः, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीते:, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मान - मेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति ।
तिन्हं सद्दनयाणामित्यादि, शब्दप्रधाना नया: शब्दनयाः शब्द- समभिरूढैवंभूताः, शब्देऽन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org