________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७४]
२९१
प्रस्थकस्य गच्छामि । इदमुक्तं भवति नैके गमा वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनादेवमप्ययावत् सर्वोऽपि मौलिकः प्रस्थक एवेति नैगमाभ्युपगमोऽपि मन्तव्य एव एवमेवानेकप्रकारवस्त्वभ्युपगमपरत्वस्योक्तस्योपपत्तेः । तथैवमेव नैगमस्य व्यवहाराद्विशेषोऽप्युपपद्येत, गमनोद्देश्यभूते काष्ठे प्रस्थकत्वेन प्रस्थकत्वाभ्युपगमस्य नैगमत्वात्, प्रस्थककारणत्वेनोपचरितप्रस्थकत्वाभ्युपगमस्य च व्यवहारत्वात् ।
ननु सूत्रे तु 'एवमेव ववहारस्स वि' त्त्यतिदेशेन नैगमाद् व्यवहारस्य विशेषाभाव एवोक्त इति चेत् ? न, अभिप्रायापरिज्ञानात् । गमनोद्देश्यभूतं काष्ठं प्रस्थकः, छिद्यमानं काष्ठं प्रस्थकः... इत्येवंक्रमेण निष्पन्नः प्रस्थकोऽपि प्रस्थक इति यथा नैगमस्याभ्युपगमस्तथैव व्यवहारस्यापि तत्सर्वं प्रस्थक इत्यभ्युपगमोऽस्त्येव । एतावतांशेनैव नैगमाद् व्यवहारस्याविशेषोऽतिदेशश्च ज्ञेयः । परंतु 'प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक एव प्रस्थकत्वेन निरुपचरितः प्रस्थकः, गमनोद्देश्यभूतकाष्ठादिकं तु प्रस्थककारणत्वेनोपचारादेव प्रस्थक इति व्यवहारनयाभ्युपगमः । गमनोद्देश्यभूतकाष्ठादिकं सर्वं प्रस्थकत्वेन निरुपचरित एव प्रस्थक इति तु नैगमनयाभ्युपगमः । एतावांस्तु तयोर्विशेषोऽभ्युपेय एव, अन्यथाऽनेकप्रकारवस्त्वभ्युपगमपरत्वं नैगमस्य यदुक्तं 'कारणे कार्योपचारात् तथाव्यवहारदर्शनादि 'त्यादि च यदुक्तं तदनुपपत्तेः ।
किञ्च 'लोकव्यवहारप्राधान्येनायं व्यवहारनयः' इति तु वृत्तिकारैरपि कथितमेव । लोकश्च प्रधानतया निष्पन्नं प्रस्थकमेव प्रस्थकतया व्यवहरति । गमनोद्देश्यभूतकाष्ठादिकं तु केनचिदभिप्रायविशेषेणैव कदाचिदेव प्रस्थकतया व्यवहरति । अतोऽपि तत्तदवस्थं काष्ठादिकमुपचारेणैव प्रस्थक इति व्यवहारनयाभिप्रायो मन्तव्य एवेति ध्येयम् ।
इत्थञ्चैतद् मन्तव्यम् । नैगमादारभ्यैवंभूतं यावद्ये ये वचनप्रयोगा यस्य यस्य नयस्याभिप्रेतास्ते सर्वेऽपि क्वचित् कदाचित् केनचित्प्रयोजनविशेषेण लोके प्रयुज्यमाना दृश्यन्त एवेति यः कोऽपि वचनप्रयोगो लोके दृश्यते स सर्वोऽपि व्यवहारस्योपचारेण विना मुख्यतयैव संमत इत्यभ्युपगमे नैगमाद् व्यवहारस्य विशेषाभावापत्तिः स्फुटैव, विभिन्ननयमान्यस्य सर्वस्याप्यर्थस्य नैगमस्येव व्यवहारस्याप्यविशेषेण मान्यत्वादिति तदापत्तिवारणार्थं 'लोके प्राधान्येन प्रयोजनविशेषमनपेक्ष्यैव यो व्यवह्रियते स व्यवहारनयस्य विषयः, तद्भिन्नस्तु यदि स्यादुपचारेणैव, न तु मुख्यतया, नैगमस्य तु सर्वोऽपि मुख्यतयैव विषयः' इत्यभ्युपगन्तव्यमेव । ततश्च नैगमस्यानेकवस्त्वभ्युपगमपरत्वं व्यवहारस्य त्वेकवस्त्वभ्युपगमपरत्वमिति विशेषोऽपि लभ्यत एव । अधिकं निक्षेपविंशिकायां द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org