________________
२९०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं संमिश्रीभवन्ति, तथा तथा तस्य नयस्य विशुद्धिहीयते, अशुद्धिश्च वर्धत इति व्यवह्रियते। यथा सङ्ग्रह्णातीति सङ्ग्रहः । ततश्च 'सद्' इत्येवं सत्तामहासामान्येन सर्वेषां सङ्ग्राहिका सदद्वैतवादिनी दृष्टिविशुद्धतमः सङ्ग्रह उच्यते । तस्यां च यथा यथा भेदग्राहिणी दृष्टिः संमिश्रीभवति तथा तथा विशुद्धेर्हासः, अशुद्धश्च वृद्धिर्भवति । अतो जीवत्वेन सर्वेषां जीवानां सङ्ग्राहिकायाः सङ्ग्रहदृष्टेर्न विशुद्धतमत्वं, अपि तु विशुद्धतरत्वमेव, पुद्गलादेरसङ्ग्रहात् । एवमेव विशुद्धत्वं, अशुद्धत्वं, अशुद्धतरत्वादिकं ज्ञेयम् । इत्थञ्चान्यनयदृष्टिसंमिश्रणमशुद्ध्यापादकं, अशुद्धिश्च स्वविशुद्धतमदृष्ट्यपेक्षया भवतीति निश्चीयते । अथ नैगमश्चिन्त्यते । नैके गमा यस्य स नैकगमः, नैगम इति यावत् । ततश्च सर्वा अपि दृष्टयो नैगमस्य स्वकीया एवेति कुतोऽन्यनयदृष्टिसंमिश्रणस्य सम्भवः कुतो वाऽशुद्धेः सम्भवः । अपरञ्च तस्य न काऽप्येका नियता दृष्टिा विशुद्धतमत्वेन व्यपदेष्टुं शक्या । ततश्चाशुद्ध-शुद्धतरत्वादिकं किंरूपं कथं वा सम्भवतीति प्रश्नः ।
अत्रेदमस्मत्परिशीलितमुत्तरम्- यतो नैगमस्य न कापि नियता दृष्टिर्यामपेक्ष्य विशुद्धिः शक्यव्यवहारा स्यात्, एवं न कापि प्रतिपक्षभूता दृष्टिर्यामपेक्ष्याशुद्धिः शक्यव्यवहारा स्यादित्यतः कस्यचिदप्यन्यस्यैव नयस्यापेक्षया शुद्ध्यशुद्धिव्यवहारः कर्तव्यः स्यात् । अन्येषु च नयेषु सामान्यतया व्यवहारनय एव शुद्ध्यशुद्ध्यादेर्यतो व्यवहर्ता, अतस्तमपेक्ष्यैव तद्व्यवहारः कर्तव्य इत्यभिप्रायेणात्राधिकारे स व्यवहारनयमपेक्ष्य कृत इति प्रतिभाति । अत एव व्यवहारनयस्य योऽभिप्रायस्तस्यैवाभ्युपगन्ता नैगमोऽत्र विशुद्धतमत्वेन प्रतिपादितः । यस्तु तस्माद् दूर-दूरतराद्यवस्थाया ग्राहकः, स अशुद्ध-अशुद्धतरादित्वेन कथितः ।
नन्वत्र कारणे कार्योपचारादशुद्धिवृत्तिकारैः कथिता । तथा च वृत्तिग्रन्थ:- यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनं, न तु प्ररथकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ 'प्ररथकस्य गच्छामी'ति । तथा च कथं शुद्ध्यादिव्यवहारो व्यवहारापेक्षः कथ्यत इति चेत् ? न, अभिप्रायापरिज्ञानात् । तथाहि-काष्ठे प्ररथककारणभूतत्वं यत् कथितं, तद्व्यवहारनयेन, एवं कारणे कार्योपचारश्च यः कथितः, सोऽपि व्यवहारनयेनैव, ‘तथाव्यवहारदर्शनाद्' इत्यनेनैतस्य सूचितत्वात्, अनेकप्रकारवस्त्वभ्युपगमपरत्वकथनान्यथाऽनुपपत्तेश्च । सा चानुपपत्तिरेवं ज्ञेया-यदि गमनोद्देश्यभूतस्य काष्ठस्य प्ररथककारणतया कारणे कार्योपचारादेव प्रस्थकत्वं नैगमोऽभ्युपगच्छेत्, तदा मूलतः प्ररथकत्वेन प्ररथकत्वस्य तु प्ररथक एव पर्यवसानान्नैगमस्याप्येकप्रकारवस्त्वभ्युपगमपरत्वमेवापतेत। अस्याश्चापत्तेर्निवारणार्थं गमनोद्देश्यभूतं काष्ठमपि प्रस्थकत्वेनैव, न तु प्रस्थककारणत्वेन, मौलिकः प्रस्थक एवेति नैगमाभ्युपगमो मन्तव्य एव । एवमेव छिद्यमानं काष्ठं, तक्ष्यमाणं काष्ठं, उत्कीर्यमाणं काष्ठमित्यादिक्रमेण 'प्रस्थकोऽयमित्येवं नामाङिकतं निष्पन्नं प्रस्थकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org