________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७३,४७४]
२८९ य केवलिए य । सेतं चरित्तगुणप्पमाणे । सेतं जीवगुणप्पमाणे । सेतं गुणप्पमाणे ।
(सू० ४७३) से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पण्णत्ते। तंजहा-पत्थयदिटुंतेणं वसहिदिटुंतेणं पएसदिटुंतेणं ।
(सू० ४७४) से किं तं पत्थगदिटुंतेणं ? पत्थगदिलुतेणं से जहानामए केइ पुरिसे परसुं गहाय अडविहत्ते गच्छेजा, तं च केइ पासित्ता वदेजा-कत्थ भवं गच्छसि ? चैतच्चारित्रं छेदोपस्थापनचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन । तदेवमिह यो यस्तप: कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तप: कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् । संपरैति पर्यटति संसारमनेनेति सम्पराय: क्रोधादिकषाय:, लोभांशमात्रावशेषतया सूक्ष्म: सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि सक्लिश्यमान-विशुद्ध्यमानकभेदाद् द्विधैव । तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, तत: प्रच्यवमानस्य सक्लिश्यमानकमिति । अहक्खाय त्ति अथशब्दोऽत्र याथातथ्ये, आङभिविधौ,
आ समन्ताद्याथातथ्येन ख्यातमथाख्यातम्, कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः । एतदपि प्रतिपात्यप्रतिपातिभेदाद् द्वेधा । तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रतिपाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोह-क्षीणमोहस्य तद् भवति, अतः स्वामिभेदाद् द्वैविध्यमिति । तदेतच्चारित्रगुणप्रमाणम्, तदेतज्जीवगुणप्रमाणम्, तदेतद् गुणप्रमाणमिति। ___ तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह - से किं तं नयप्पमाणे इत्यादि । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम्, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगम-सङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते, तथा चाह- तद्यथा- प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः ।
तत्र प्रस्थकदृष्टान्तं दर्शयति- तद्यथानामकः कश्चित् पुरुष: परशुंकुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि । इदमुक्तं भवति- प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत् क्व भवान् गच्छति ? ११८ तत्राऽविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः । किमित्याह__११८. तत्राविशुद्धनैगमो भणतीत्यादि । नन्वत्र नैगमे शुद्धाशुद्धत्वं किम् ? प्रश्नेऽत्रायमाशयःयस्य नयस्य या स्वकीया दृष्टिः, तदन्यनयदृष्टेरंशतोऽपि संमिश्रणं यथा न स्यात्तथा तयैव केवलया यद्दर्शनं तत्र तस्य नयस्य विशुद्धतमत्वं व्यवह्रियते । तथा यथा यथा तदन्यनयदृष्टेरंशाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org