________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
T
गुणप्पमा दुवि पण्णत्ते । तंजहा- इत्तरिए य आवकहिए य । छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - सातियारे य निरतियारे य । परिहारविसुद्धियचरित्तगुणप्पमामणे दुविहे पण्णत्ते । तंजहा - णिव्विसमाणए य णिविट्ठकायिए य । सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं- जहा पडिवाई य अपडिवाई यछत्थे चरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति । आत्मन: कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम् । एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति । पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनम्, भरतैरावतप्रथम-पश्चिमतीर्थकरतीर्थ एव, नान्यत्र । तच्च सातिचारं निरतिचारं च । तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थं सङ्क्रामतस्तन्निरतिचारम् । मूलगुणघातिनस्तु यत् पुनर्व्रतारोपणं तत् सातिचारम् । परिहारः तपोविशेषस्तेन विशुद्धम्, अथवा परिहारः अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम् । तदपि द्विविधम्निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकम् । निर्विष्ट आसेवितप्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिका: साधवः, तदाश्रयित्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । इदमत्र हृदयम्- तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैकः कल्पस्थितो यदन्ति सर्वा सामाचा क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्यकर्तृत्वं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते । तत्र परिहारकाणां तपः प्रोच्यतेग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठम् उत्कृष्टतस्त्वष्टमम्, शिशिरे जघन्य मध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमं च, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थिता-ऽनुपरिहारिकाः पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च नवानामप्याचामाम्लमेव, नान्यत् । ततः परिहारिकाः षण्मासान् यावद्यथोक्तं तपः कृत्वा अपरिहार प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकताम्, तैरपि षण्मासान् यावद्यदा तपः कृतं भवति तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रेतनश्चासौ षड् मासान् यावद्यथोक्तं तपः करोति, शेषास्तु सप्ताऽनुचरतामाश्रयन्ति । एवं चाष्टादशभिर्मासैरयं कल्पः समाप्यते । तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्येरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः । अपरं
२८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org