________________
श्रीअनुयोगद्वारसूत्रम् [सू०४७२]
२८७ अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहिं सव्वपज्जवेहि य । सेतं दसणगुणप्पमाणे।
(सू० ४७२) से किं तं चरित्तगुणप्पमाणे ? चरित्तगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा- सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं कृतम्, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति। उक्तं च - पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु (आवश्यकनि० गा०५) इत्यादि । अवधेर्दर्शनमवधिदर्शनम् अवधिदर्शनिन: अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुन: सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता: सङ्ख्येया असङ्ख्येया वा पर्याया विषयत्वेनोक्ता:, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूप-रस-गन्ध-स्पर्शलक्षणाश्चत्वार: पर्याया इत्यर्थः । उक्तं च
दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ । दो पज्जवे दुगुणिए लहइ य एगाउ दव्वाओ ॥१॥ ( )
अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, तत् कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तम्, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मंदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यत: सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यास: । केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनं केवलदर्शनिन: तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति । तदेतद्दर्शनगुणप्रमाणम् ।
से किं तं चरित्तगुणप्पमाणे इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रम्, तदेव चारित्रम्, चारित्रमेव गुण:, स एव प्रमाणं (चारित्रगुणप्रमाणं) सावद्ययोगविरतिरूपम् । तच्च पञ्चविधं सामायिकादि । पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते । तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । सामायिकं पूर्वोक्तशब्दार्थम्, तच्चेत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम्, तच्चाद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org