________________
२८६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४७०) अहवा आगमे तिविहे पण्णत्ते । तंजहा- सुत्तागमे य अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं०-अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेतं लोगुत्तरिए । सेतं आगमे। सेतं णाणगुणप्पमाणे ।
(सू० ४७१) से किं तं दंसणगुणप्पमाणे ? दंसणगुणप्पमाणे चउव्विहे पण्णत्ते । तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे य । चक्खुदंसणं चक्खुदंसणिस्स घड-पड-कड-रधादिएसु दव्वेसु, भिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वात्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् । न च वक्तव्यम्- वचनस्य पौद्गलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्य-कुड्यस्खलनाद्यन्यथानुपपत्तेः । तस्मान्नैकान्तेनापौरुषेयमागमवच:, ताल्वादिव्यापाराभिव्यङ्ग्यत्वात्, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरनिर्णीतत्वादिति । सेत्तं लोगुत्तरिए इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणम् ।
अथ दर्शनगुणप्रमाणमाह- से किं तं दसणगुणप्पमाणे इत्यादि। दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च -
जं सामन्नग्गहणं भावाणं नेय कटुमागारं । अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥१|| ( )
तदेवात्मनो गुणः, स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधम्, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिन: चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत् सामान्य-विशेषयो: कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । उक्तं च- निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते ( ) इत्यादि । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम्, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिन: अचक्षुर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि जीवे भाव: संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुरस्तीत्यर्थः । इदमुक्तं भवति- चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org