________________
श्री अनुयोगद्वारसूत्रम् [सू०४६६-४६९]
२८५
(सू० ४६६ ) से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीर, जहा - णी णं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, पाणेणं पाणसरिसं कयं । सेतं सव्ववेहम्मे । सेतं वेहम्मोवणीए । सेतं ओवम् ।
(सू० ४६७ ) से किं तं आगमे ? आगमे दुविहे पण्णत्ते । तंजहा - लोइए य लोगुत्तरिए
य ।
( सू० ४६८) से किं तं लोइए ? लोइए- जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं । तंजहा भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा । सेतं लोइए आगमे ।
( सू० ४६९ ) से किं तं लोगुत्तरिए ? लोगुत्तरिए - जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाण- दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय- महिय-पूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तंजहा - आयारो जाव दिट्ठवाओ । सेतं लोगुत्तरिए आगमे ।
किं पुनरनीचः ? ततः सकलजगद्विलक्षणप्रवृत्तित्वविवक्षया वैधर्म्यमिह भावनीयम् । एवं दासाद्युदाहरणेष्वपि वाच्यम् । सेतं सव्ववेहम्मे इत्यादि निगमनत्रयम् ।
से किं तं आग इत्यादि । गुरुपारम्पर्येणागच्छतीत्यागमः, आ समन्ताद् गम्यन्ते ज्ञायन्ते जीवादयः पदार्था अनेनेति वा आगमः । अयं च द्विधा प्रज्ञप्तः, तद्यथा - लोइए इत्यादि, इदं चेव पूर्वं भावश्रुतं विचारयता व्याख्यातं यावत् सेत्तं लोगुत्तरिए आगमे त्ति । अहवा आग तिविहे इत्यादि, तत्र सूत्रमेव सूत्रागम:, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः । अथवा अन्येन प्रकारेणाऽऽगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमः, यथा तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः । गणधराणां तु सूत्रस्यात्मागमः स्वयमेव ग्रथितत्वात्, अर्थस्यानन्तरागम:, अनन्तरमेव तीर्थकरादागतत्वात् । उक्तं च
अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं (आवश्यकनि० ९२ ) इत्यादि । गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागम:, अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागम:, गणधरेणैव व्यवधानात् । ततः ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागम:, तल्लक्षणायोगात्, अपि तु परम्परागम एव । अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः । ताल्वादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org