________________
२८४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत
(सू० ४६१) से किं तं पायसाहम्मे ? पायसहम्मे- जहा गो तहा गवयो, जहा गवयो तहा गो । सेतं पायसाहम्मे ।
(सू० ४६२) से किं तं सव्वसाहम्मे ? सव्वसाहम्मे- ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । सेतं सव्वसाहम्मे। सेतं साहम्मोवणीए ।
__ (सू० ४६३) से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते। तंजहाकिंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे ।
(सू० ४६४) से किं तं किंचिवेहम्मे ? किंचिवेहम्मे जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेतं किंचिवेहम्मे।
(सू० ४६५) से किं तं पायवेहम्मे ? पायवेहम्मे जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । सेतं पायवेहम्मे । सकम्बलो गौत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता । सर्वसाधर्म्य तु क्षेत्र-कालादिभिर्भेदान्न कस्यापि केनचित् सार्द्धं संभवति, संभवे त्वेकताप्रसङ्गः । तथुपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य विवक्षितस्याहंदादेस्तेनैव अर्हदादिना औपम्यं क्रियते, तद्यथाअर्हता अर्हतः सदृशं कृतम्, तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते- तत् किमपीदं भवद्भिः कृतं यद् भवन्त एव कुर्वन्ति नान्य: कश्चिदिति। एवं चक्रवर्ति-(बलदेव-)वासुदेवादिष्वपि वाच्यम्। ___ से किं तं वेहम्मोवणीए इत्यादि । यथेति यादृश: शबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः, अत्र च शेषधर्मेंस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधयँ भावनीयम् ।
से किं तं पायवेहम्मे इत्यादि । अत्र वायस-पायसयोः सचेतनत्वा-ऽचेतनत्वादिभिबहुभिर्धर्मेविसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमावतश्च साम्यात् प्रायोवैधर्म्यता भावनीया । सर्ववैधयं तु न कस्यचित् केनापि संभवति, सत्त्व-प्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते, यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि। आह- नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम्, सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org