________________
१५३
श्रीअनुयोगद्वारसूत्रम् [सू०२२४,२२५]
(सू० २२४) से किं तं संठाणणामे ? संठाणणामे पंचविहे पण्णत्ते । तंजहापरिमंडलसंठाणणामे १, वसंठाणणामे २, तंससंठाणणामे ३, चउरंससंठाणणामे ४, आयतसंठाणणामे ५ । सेतं संठाणणामे । सेतं गुणणामे ।।
(सू० २२५) से किं तं पज्जवनामे ? पजवनामे अणेगविहे पण्णत्ते । तंजहाएगगुणकालए, दुगुणकालए जाव अणंतगुणकालए, एगगुणनीलए, दुगुणनीलए जाव अणंतगुणनीलए, एवं लोहिय-हालिद्द-सुकिला वि भाणियव्वा । एगगुणसुरभिगंधे, दुगुणसुरभिगंधे जाव अणंतगुणसुरभिगंधे, एवं दुरभिगंधो वि भाणियव्वो। एगगुणतित्ते, स चेह नोदाहृतः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण ।
स्पृश्यत इति स्पर्शः । कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगत: कर्कश: । सन्नतिकारणं तिनिशलतादिगतो मृदुः । अध:पतनहेतुरयोगोलकादिगतो गुरुः । प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः । देहस्तम्भादिहेतु: प्रालेयाद्याश्रित: शीतः। आहारपाकादिकारणं वयाद्यनुगत उष्ण: । पुद्गलद्रव्याणां मिथ: संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थित: स्निग्धः । तेषामेवाबन्धनिबन्धनं भस्माद्याधारो रूक्ष: । एतत्संसर्गजास्तु नोक्ता:, एष्वेवान्तर्भावादिति । संस्थानस्वरूपं तु प्रतीतमेव ।
परि समन्तादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवा:, अथवा परि समन्ताद् अवनानि गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवा: एकगुणकालत्वादय:, तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परि समन्तादयन्ते अपगच्छन्ति न पुनर्द्रव्यवत् सर्वदैव तिष्ठन्तीति पर्याया:, अथवा परि सामस्त्येन एति अभिगच्छति व्याप्नोति वस्तु तानिति पर्याया: एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति । तत्रेह गुणशब्दोंऽशपर्याय:, ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः सर्वजघन्यो गुण: अंशस्तेन कालक: परमाण्वादिरेकगुणकालकः, सर्वजघन्यकृष्ण इत्यर्थ: । द्वाभ्यां गुणाभ्यां तदंशाभ्यां कालक: परमाण्वादिरेव द्विगुणकालकः, एवं तावन्नेयं यावदनन्तैर्गुणैः तदंशै: कालकोऽनन्तगुणकालक: स एवेति । एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति । आह- गुण-पर्याययो: कः प्रतिविशेष: ? उच्यते, सदैव सहवर्तित्वाद्वर्ण-गन्ध-रसादय: सामान्येन गुणा उच्यन्ते, न हि मूर्ते वस्तुनि वर्णादिमात्रं कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थातो निवर्तन्त एवेति, अत: क्रमवृत्तित्वात् पर्याया: । उक्तं च - सहवर्तिनो गुणा:, यथा जीवस्य चैतन्याऽमूर्तत्वादयः, क्रमवर्तिन: पर्यायाः, यथा तस्यैव नारकत्व-तिर्यक्त्वादयः ( ) इति । ननु यद्येवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org