________________
१५४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं दगुणतित्ते जाव अणंतगुणतित्ते, एवं कडुय-कसाय-अंबिल-महुरा वि भाणियव्वा । एगगुणकक्खडे, दुगुणकक्खडे जाव अणंतगुणकक्खडे, एवं मउय-गरुय-लहुय-सीतउसिण-णिद्ध-लुक्खा वि भाणियव्वा । से तं पज्जवणामे। (सू० २२६) तं पुण णामं तिविहं इत्थी १, पुरिसं २, णपुंसगं ३, चेव ।
एएसिं तिण्हं पि य अंतम्मि परूवणं वोच्छं ॥१८॥ तत्थ पुरिसस्स अंता आ ई ऊ ओ य होंति चत्तारि । ते चेव इत्थियाए हवंति ओकारपरिहीणा ॥१९।। अंति य इं ति य उ ति य अंता उ णपुंसगस्स बोद्धव्वा ।
एतेसिं तिण्हं पि य वोच्छामि निदंसणे एत्तो ॥२०॥ तर्हि वर्णादिसामान्यस्य भवतु गुणत्वम्, तद्विशेषाणां तु कृष्णादीनां तद् न स्यात्, अनियतत्वात् तेषाम्, सत्यम्, वर्णादिसामान्यभेदानामपि कृष्ण-नीलादीनां प्राय: प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह- भवत्वेवम्, किन्तु पुद्गलास्तिकायद्रव्यस्यैव संबन्धिनो गुणपर्याया: किमिति गुण-पर्यायनामत्वेनोदाहृता: ? न धर्मास्तिकायादीनाम्, न च वक्तव्यम् - तेषां ते न सन्तीति, धर्मा-ऽधर्मा-ऽऽकाश-जीव-कालद्रव्येष्वपि यथाक्रम गतिस्थित्यवगाहोपयोगवर्त्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यम्, किन्त्विन्द्रियप्रत्यक्षगम्यत्वात् सुखप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुण-पर्याया उदाहृताः, न शेषाणामित्यलं विस्तरेण । तस्माद् यत् किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यम्, नात: परं किमपि नामास्ति, तत: सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति ।
तं पुण गाहा। व्याख्या - तत् पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुनपुंसकलिङ्गेषु वर्तमानत्वात् त्रिविधं त्रिप्रकारम् । तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुल्लिँङ्गे घट: पट इत्यादि, नपुंसके दधि मध्वित्यादि । एषां च स्त्रीलिङ्गवृत्त्यादीनां त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह- एएसिमित्यादि गतार्थमेवेति गाथार्थः ।
तत्थ पुरिस० गाहा । तत्र तस्मिन् त्रिविधे नाम्नि पुरुषस्य पुल्लिङ्गवृत्तेर्नाम्न: अन्ता अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा - आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुल्लिंगवृत्तेर्नाम्नोऽन्तेऽक्षरं संभवतीत्यर्थ: । स्त्रीलिङ्गवृत्तेर्नाम्नोऽप्यन्ते ओकारवर्णान्येतान्येवा
कारेकारोकारलक्षणानि त्रीण्यक्षराणि भवन्ति, नापरमिति । अत्र चानन्तरगाथायाम् इत्थी-पुरिसमिति निर्टिश्यापि यदिहादौ पुल्लिंगनाम्नो लक्षणकथनं तत् पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org