SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् (सू०२२७-२२९] आकारंतो राया ईकारंतो गिरी य सिहरी य । ऊकारंतो विण्हू दुमो ओ अंता उ पुरिसाणं ॥२१॥ आकारंता माला ईकारंता सिरी य लच्छी य । ऊकारंता जंबू वह य अंता उ इत्थीणं ॥२२॥ अंकारंतं धन्नं इंकारंतं नपुंसकं अच्छिं । उंकारंतं पीलुं महुं च अंता णपुंसाणं ॥२३॥ सेतं तिणामे । (सू० २२७) से किं तं चतुणामे ? चतुणामे चउव्विहे पण्णत्ते । तंजहा-आगमेणं १, लोवेणं २, पयईए ३, विगारेणं ४ । (सू० २२८) से किं तं आगमेणं? आगमेणं पद्मानि पयांसि कुण्डानि । सेतं आगमेणं । (सू० २२९) से किं तं लोवेणं ? लोवेणं ते अत्र तेऽत्र, पटो अत्र पटोऽत्र, घटो अत्र घटोऽत्र, रथो अत्र रथोऽत्र । सेतं लोवेणं । अंति य गाहा । नपुंसकवृत्तिनाम्नस्त्वन्ते अंकार: इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति, नापरम् । एतेषां च त्रयाणामपि निदर्शनम् उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः । तदेवाह - ८५आगारंतो इत्यादि गाथात्रयं व्यक्तम् । नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादूकारान्तता न विरुध्यते । एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यम् । जम्बू: स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेष: । पीलु ति क्षीरम् । शेषं सुगमम् । सेत्तं तिनामे त्ति निगमनम् । से किं तं चउनामे इत्यादि। आगच्छतीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्स्वराद् घुटि नुः (कातन्त्र० २।२।११) इत्यनेनात्र न्वागमस्य विधानात्, उपलक्षणमात्रं चेदम्, संस्कार उपस्कर इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति। लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, एदोत्पर: पदान्ते (कातन्त्र० १।२१७) इत्यादिना अकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदम्, मनस ईषा मनीषा बुद्धि:, भ्रमतीति भूरित्यादेरपि सकार-मकारादिवर्णलोपेन निष्पन्नत्वादिति । प्रकृति: स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनौ (कातन्त्र० १।३।२) इत्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदम्, सरसिजं कण्ठेकाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति । वर्णस्यान्यथाभावापादनं विकार:, तेन निष्पन्नं दण्डस्याग्रं दण्डाग्रमित्यादि, समान: सवर्णे दीर्घाभवति (कातन्त्र० १।२।१) इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वात्, ८५. आगारंतो इति। ततश्च प्रथमैकवचनान्तपदमेवात्र नामत्वेनोक्तं ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy