________________
१५६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २३०) से किं तं पगतीए ? अग्नी एतौ, पटू इमौ, शाले एते, माले इमे । सेतं पगतीए।
(सू० २३१) से किं तं विकारेणं ? विकारेणं दण्डस्य अग्रं दण्डाग्रम्, सा आगता साऽऽगता, दधि इदं दधीदम्, नदी ईहते नदीहते, मधु उदकं मधूदकम्, बहु ऊहते बहूहते। सेतं विकारेणं । सेतं चउणामे ।
(सू० २३२) से किं तं पंचनामे ? पंचनामे पंचविहे पण्णत्ते । तं जहा-नामिकं १ नैपातिकं २ आख्यातिकम् ३ औपसर्गिकं ४ मिश्रं ५ च । अश्व इति नामिकम्, खल्विति नैपातिकम्, धावतीत्याख्यातिकम्, परि इत्यौपसर्गिकम्, संयत इति मिश्रम् । सेतं पंचनामे।
(सू० २३३) से किं तं छनामे ? छनामे छव्विहे पण्णत्ते । तंजहा- उदइए १, उवसमिए २, खइए ३, खओवसमिए ४, पारिणामिए ५, सन्निवातिए ६।।
__ (सू० २३४) से किं तं उदइए? उदइए दुविहे पण्णत्ते । तंजहा-उदए य १, उदयनिप्फण्णे य २ ।
(सू० २३५) से किं तं उदए ? उदए अट्ठण्हं कम्मपगडीणं उदए णं । से तं उदए। उदाहरणमात्रं चैतत्, तस्कर: षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिर्वृत्तेन वा विकारनिष्पन्नेन वा भवितव्यम्, डित्थादिनाम्नामपि सनिरुक्तत्वात् नाम च धातुजमाह ( ) इत्यादिवचनात् । ततश्चतुर्भिरप्यतै: सर्वस्य सङ्ग्रहाच्चतुर्नामेदमुच्यते । सेत्तं चउनामे त्ति निगमनम् ।
से किं तं पंचनामे इत्यादि । इहाऽश्व इति नामिकम्, वस्तुवाचकत्वात् । खल्विति नैपातिकम्, निपातेषु पठितत्वात् । धावतीत्याख्यातिकम्, क्रियाप्रधानत्वात् । परीत्यौपसर्गिकम्, उपसर्गेषु पठितत्वात् । संयत इति मिश्रम्, उपसर्ग-नामसमुदायनिष्पन्नत्वादिति । एतैरपि सर्वस्य क्रोडीकरणात् पञ्चनामत्वं भावनीयम् । सेत्तं पंचनामे त्ति निगमनम् ।
से किं तं छनामे इत्यादि । अत्रौदयिकादय: षड् भावा: प्ररूप्यन्ते, तथा च सूत्रम्- उदइए इत्यादि । अत्राह- ननु नाम्नि प्रक्रान्ते तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति, नैतदेवम्, नाम-नामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वात्, एवमन्यत्रापि यथासम्भवं वाच्यम् । तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदय:, स एवौदयिकः, अथवा यथोक्तेनैवोदयेन निष्पन्न औदयिकः, भाव इति सामर्थ्याद् गम्यते । उपशमनमुपशम: कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत्, स एव औपशमिकः, तेन वा निवृत्त औपशमिकः । क्षयः कर्मणोऽपगम:, स एव तेन वा निवृत्त: क्षायिक: । कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org