________________
श्री अनुयोगद्वारसूत्रम् [सू०२३६,२३७]
( सू० २३६ ) से किं तं उदयनिप्फणे ? उदयनिप्फ दुविहे पण्णत्ते । जीवोदयनिफने य १, अजीवोदयनिप्फन्ने य २ ।
( सू० २३७ ) से किं तं जीवोदयनिप्फन्ने ? जीवोदयनिप्फन्ने अणेगविहे पण्णत्ते । तंजहा - णेरइए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए जाव वण्णस्सइकाइए तसकाइए, कोहसायी जाव लोहकसायी, इत्थीवेदए पुरिसवेदए णपुंसगवेदए, कण्हलेसे एवं नील० काउ० तेउ० पम्ह० सुक्कलेसे, मिच्छादिट्ठी अविरए अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे । सेतं जीवोदयनिफन्ने
१५७
वा निर्वृत्तः क्षायोपशमिक : दरविध्यातभस्मच्छन्नवह्निवत् । परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणाम:, स एव तेन वा निर्वृत्तः पारिणामिकः । अनन्तरोक्तानां द्व्यादिभावानां मेलकः सन्निपात:, स एव तेन वा निर्वृत्तः सान्निपातिकः ।
तामीषां प्रत्येकं स्वरूपनिरूपणार्थमाह से किं तं ओदइए इत्यादि । औदको भाव द्विविधः- अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च । अयं चार्थः प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः । उदयनिष्पन्नः पुनरपि द्विविध:- जीवे उदयनिष्पन्नो जीवोदयनिष्पन्नः, अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नः ।
जहा
तत्र जीवोदयनिष्पन्नस्योदाहरणानि - णेरइए इत्यादि । इदमुक्तं भवति - कर्मणामुदयेनैव सर्वे - ऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथा - नारकस्तिर्यङ् मनुष्य इत्यादि । अत्राह - ननु यद्येवम निद्रापञ्चक-वेदनीय-हास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादयः कियन्तोऽप्युपन्यस्ताः ? सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो द्रष्टव्याः । अपरवाह ननु कर्मोदयजनितानां नारकत्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत् किमितीह तदुपन्यासः ? सत्यम्, किन्तु योगपरिणामो लेश्याः, योगस्तु विध ८६ कर्मोदयजन्य एव, ततो लेश्यानामपि तदुदयजन्यत्वं न विहन्यते । अन्ये तु मन्यन्ते कर्माष्टकोदयात् संसारस्थत्वाऽसिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण । तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति । सेत्तं जीवोदयनिफन्ने त्ति निगमनम् ।
अथाजीवोदयनिष्पन्नं निरूपयितुमाह से किं तमित्यादि । ओरालियं वा सरीरं विशिष्टाकारपरिणतं तिर्यङ्-मनुष्यदेहरूपमौदारिकं शरीरम्, ओरालिअसरीरप्पओगेत्यादि, औदारिकशरीरप्रयोगपरिणमितं वा द्रव्यम्, औदारिकशरीरस्य प्रयोगो व्यापारस्तेन परिणमितं स्व
Jain Education International
८६. कर्मोदयजन्य एवेति । ननु वीर्यपरिणामो योगः वीर्यं तु वीर्यान्तरायकर्मक्षयक्षयोपशमजन्य आत्मपरिणामः, ततः कर्मोदयजन्यत्वं कथमिति चेत् ? वीर्यं द्विविधं भवति
For Private & Personal Use Only
www.jainelibrary.org