________________
१५८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० २३८) से किं तं अजीवोदयनिप्फन्ने ? अजीवोदयनिप्फन्ने चोद्दसविहे पण्णत्ते। तंजहा-ओरालियं वा सरीरं १, ओरालियसरीरपयोगपरिणामियं वा दव्वं २, वेउव्वियं वा सरीरं ३, वेउव्वियसरीरपयोगपरिणामियं वा दव्वं ४, एवं आहारगं सरीरं ६, तेयगं सरीरं ८, कम्मगं सरीरं च भाणियव्वं १०, पयोगपरिणामिए वण्णे ११, गंधे १२, रसे १३, फासे १४ । सेतं अजीवोदयनिप्फण्णे । सेतं उदयनिप्फण्णे । सेतं उदए । प्रायोग्यत्वाद् गृहीतं तत्तथा, तच्च वर्ण-गन्ध-रस-स्पर्शा-ऽऽनापानादिरूपं स्वत एवोपरिष्टाद् दर्शयिष्यति । वाशब्दौ परस्परसमुच्चये । एतद् द्वितयमप्यजीवे पुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको भाव उच्यते । एवं वैक्रियशरीरादिष्वपि भावना कार्या । नवरं वैक्रियशरीरनामकर्माद्युदयजन्यत्वं यथास्वं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह- पओगपरिणामिए वण्णे इत्यादि, पञ्चानामपि शरीराणां प्रयोगेण व्यापारेण परिणमितं गृहीतं वर्णादिकं शरीरे वर्णादिसम्पादकं ८°द्रव्यमिदं द्रष्टव्यम् । उपलक्षणत्वाच्च वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् स्वत एव दृश्यमिति । अत्राह - ननु यथा नारकत्वादय: पर्याया जीवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भवन्ति, अतस्तान्यपि तत्रैव पठनीयानि स्यु:, किमित्यजीवोदयनिष्पन्नेऽधीयन्ते ? अस्त्येतत्, किन्त्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न औदयिको भाव: शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्यदोषः । सेत्तमित्यादि निगमनत्रयम् ।
उक्तो द्विविधोऽप्यौदयिक:, अथौपशमिकं निर्दिदिक्षुराह - से किं तं उवसमिए इत्यादि । अयमपि द्विविध: - ८८उपशमस्तन्निष्पन्नश्च । तत्र उवसमे णं ति, णमिति वाक्यालङ्कारे, उपशम: लब्धिवीर्य, करण(व्यापृत) वीर्यं च । तत्र लब्धिवीर्यं वीर्यान्तरायकर्मक्षय-क्षयोपशमजन्यं भवति । तस्मादौदारिकशरीरादिसाचिव्येन यच्च यावच्च व्याप्रियते तद् योगापरनामकरणवीर्यमुच्यते । तत्र च शरीर-संघयण-पर्याप्त्यादिनामकर्मोदयस्याप्यपेक्षणात् कर्मोदयजन्यत्वमपि न विरुद्धमिति ।
८७. द्रव्यमिदं द्रष्टव्यमिति । यद्वेयमपि व्याख्याऽत्र शक्या-शङ्खादीनां यादृक्शुक्लवर्णादयो भवन्ति ते न कदाचिदपि विस्रसापरिणामत एव भवितुमर्हाः, अपि तु शङ्खादयो जीवा यदा विवक्षितं पुद्गलद्रव्यं स्वशरीरतया परिणामयन्ति तदैव ते वर्णादयस्तत्रोत्पद्यन्त इति ते प्रयोगपरिणमिता उच्यन्ते । किञ्च तत्तद्वर्णादिपरिणामास्तज्जीववर्णादिनामकर्मोदयमनुसृत्य संजायन्तेऽत उदयनिष्पन्नाः कथ्यन्ते ।
८८. उपशम इति । अत्र कर्मणो भस्मपटलावच्छन्नाग्निवद् अनुदयाक्षीणावस्थोपशमः, तज्जन्यात्मपरिणाम उपशमनिष्पन्न इत्येवं वैविध्यं लभ्यते। एवमेव क्षायिकादिषु बोध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org