________________
९०
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
भागे होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागे सु होज्जा, नो असंखेज्जेसु भागेसु होज्जा । (३) एवं अवत्तव्वगदव्वाणि वि ।
( सू० ११३ ) ( १ ) णेगम-ववहाराणं आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? किं उदइए भावे होज्जा ? उवसमिए भावे होज्जा ? खाइए भावे होज्जा ? खाओवसमिए भावे होज्जा ? पारिणामिए भावे होज्जा ? सन्निवाइए भावे होज्जा ? णियमा साइपारिणामिए भावे होज्जा ।
(२) अणाणुपुव्विदव्वाणि अवत्तव्वयदव्वाणि य एवं चेव भाणियव्वाणि ।
(सू० ११४) (१) एएसि णं भंते ! णेगम - ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्ठ-पएसट्टयाए कयरे कयरेर्हितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोतमा ! सव्वत्थोवाइं णेगम - ववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्वीदव्वाइं दव्वट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वाइमित्यादि इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसङ्ख्यात व भवन्ति, न शेषभागेषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति ७ ।
उक्तं भागद्वारम्, साम्प्रतं भावद्वारमाह- णेगम-ववहाराणमित्यादि प्रश्नः । अत्र च औदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते । अत्र निर्वचनसूत्रे नियमा साइपारिणामिए भावे होज्ज त्ति, परिणमनं द्रव्यस्य तेन तेन रूपेण वर्तनं भवनं परिणाम:, स एव पारिणामिकः, तत्र भवस्तेन वा निर्वृत्त इति वा पारिणामिकः, स च द्विविधः - सादिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः अनादिकालात्तद्द्रव्यत्वेन तेषां परिणतत्वात्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावात्, एवं स्थिते नियमाद् अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात् विशिष्टैकपरिणामेन पुद्गलानामसङ्ख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति ८ ।
उक्तं भावद्वारम्, इदानीमल्पबहुत्वद्वारं बिभणिषुराह - एतेसु णमित्यादि, द्रव्यमेवार्थो द्रव्यार्थः, तस्य भावो द्रव्यार्थता, तया, द्रव्यत्वेन इत्यर्थः । प्रकृष्टो निरंशो देश: प्रदेश: स चासावर्थश्च प्रदेशार्थः, तस्य भावः प्रदेशार्थता, तया, परमाणुत्वेनेति भावः । द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः । तदयमर्थ:- एतेषां भदन्त ! आनुपूर्व्यादिद्रव्याणां मध्ये कयरे करेहिंतो त्ति कतराणि कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना, बहूनि असङ्ख्येयगुणत्वादिना, तुल्यानि समसङ्ख्यत्वेन, विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दा: पक्षान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org