________________
श्री अनुयोगद्वारसूत्रम् [सू०११२]
८९
किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा ।
(२) गम - ववहाराणं अणाणुपुव्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु योस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्याप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां कतिभागे होज्ज त्ति कतिथे भागे भवन्तीत्यर्थः, किं सङ्ख्यातत भागे भवन्ति यथा असत्कल्पनया शतस्य विंशतिः, उताऽसङ्ख्याततमे भागे भवन्ति यथा शतस्यैव दश ? अथ सङ्ख्यातेषु भागेषु भवन्ति यथा शतस्यैव चत्वारिंशत् षष्टिर्वा, आहोश्विदसङ्ख्यातेषु भागेषु भवन्ति यथा शतस्यैवाशीतिरिति प्रश्नः । अत्र निर्वचनम् - नो संखेज्जइभागे होज्जा इत्यादि । नियमा असंखेज्जेसु भागेसु होज्ज त्ति, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसख्येयैर्भागैः अधिकानि भवन्तीति वाक्यशेषो द्रष्टव्यः । ततश्चायमर्थ: प्रतिपत्तव्य:- आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसङ्ख्येयगुणानि, शेषद्रव्याणि तु तदसङ्ख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्यः स्तोकानीति । कस्मादेवं व्याख्यायते ? स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम्, अघटमानकत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्गला द्व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुस्कन्धपर्यन्तानि द्रव्याणि समस्तान्यप्यानुपूर्वीरूपाण्येव, तानि च पूर्वेभ्योऽसख्येयगुणानि, यत उक्तम्-एएसि णं भंते ! परमाणुपोग्गलाणं संखेज्जपए सियाणं असंखेज्जपएसियाणं अणतपए सियाण य खंधाणं करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अनंतगुणा, संखेज्जपएसिया खंधा संखेज्जगुणा, असंखेज्जएसिया खंधा असंखेज्जगुणा (प्रज्ञापनासूत्रे तृतीयपदे सू० ३३० ) । तदत्र सूत्रे पुद्गलजाते: सर्वस्या अपि सकाशादसङ्ख्यातप्रदेशिका : स्कन्धा असङ्ख्यातगुणा उक्ताः, ते चाऽऽनुपूर्व्यामन्तर्भवन्ति, अतस्तदपेक्षया आनुपूर्वीद्रव्याणि शेषात् समस्तादपि द्रव्यादसङ्ख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तरेण । अणाणुपुवीदधिकमल्पं वा ? इत्यस्य त्वल्पबहुत्वद्वारविषयत्वात् । (३) अग्रे नवविंशत्यधिकशततमे सङ्ग्रहनयसूत्रे त्रिभाग इति यदुक्तं तस्याशेषद्रव्यापेक्षयैवोपपद्यमानत्वात् । एतच्च तत्रैव व्यक्तीकरिष्यते। नन्वेवम्प्रकार आद्यस्वरलोपोऽन्यत्र कुत्र दृष्ट इति चेत् ? निशीतचूर्ण्यादाविति गृहाण । तद्यथा - अट्ठविहकम्मपंको इत्यादि (७०) निशीथभाष्यगाथायाश्चूर्णौ किं पुण तेसिं इमं सुतिं नागच्छती 'ति वक्तव्ये 'किं पुण तेसिंमं सुतिं नागच्छति' त्ति कथितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org