________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं
(३) गम - ववहाराणं अवत्तव्वगदव्वाणं अंतरं कालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अनंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं । (सू० ११२) (१) गम - ववहाराणं ३९ आणुपुव्वीदव्वाइं सेसदव्वाणं कड़भागे होज्जा ? सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसङ्ख्येयरूपस्यैवान्तरकालस्योक्तत्वादित्यलं विस्तरेण । नाणादव्वाइं पडुच्चेत्यादि पूर्ववद्भावनीयम् ।
अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् एगं दव्वं पडुच्चेत्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिकः स्कन्धो विघटितः स्वतन्त्रं परमाणुद्वयं जातम्, समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां द्विप्रदेशिकः स्कन्धो निष्पन्न; अथवा ३८ विघटित एव द्विप्रदेशिकः स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते । उक्कोसेणं अणतं कालं ति, कथम् ? अत्रोच्यते- अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातम्, तच्चानन्तैः परमाणुभिरनन्तैर्ह्यणुकस्कन्धैरनन्तैस्त्र्यणुकस्कन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकाराच्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव द्व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते । नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् वक्तव्या ६ ।
-व्यवहार
उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्द्दिदिक्षुराह - नेगम-ववहाराणमित्यादि । नैगम-र ३८. विघटित एव । अत्र विवक्षित एवेति पाठो मन्तव्यः ।
३९. आणुपुव्वीदव्वाई सेसदव्वाणंति । वस्तुतोऽत्र प्राकृतत्वादार्षत्वाच्चोत्तरशब्दगतस्याकारलक्षणस्याद्यस्वरस्य लोपो मन्तव्यः । ततश्चैवमर्थो लभ्यते नैगमव्यवहारयोरानुपूर्वीद्रव्याणि अशेषद्रव्याणां = समस्तानामानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां कतिभागे भवन्ति ? किं सङ्ख्याततमे भागे भवन्ति ? असङ्ख्याततमे भागे भवन्ति ? सङ्ख्यातेषु भागेषु भवन्ति ? असङ्ख्यातेषु भागेषु भवन्ति ? न सङ्ख्याततमे भागे भवन्ति, नासङ्ख्याततमे भागे भवन्ति, न सङ्ख्यातेषु भागेषु भवन्ति नियमाद् असङ्ख्यातेषु भागेषु भवन्ति । अर्थादशेषद्रव्याणामसङ्ख्यातबहुभागा आनुपूर्वीद्रव्याण्येव, अनानुपूर्व्यवक्तव्यकद्रव्याणि त्वेकासङ्ख्याततमे भाग एव भवन्ति । युक्तश्चायमर्थः (१) विवक्षितमार्गणाविषयभूतं द्रव्यमशेषद्रव्याणां कतिभागे वर्तत इत्यस्यैव सर्वत्र भागद्वारे विचार्यमाणत्वात्, न त्ववशिष्टद्रव्याणां कतिभागे ? इत्यस्य । तथाहि एकेन्द्रियमार्गणायां विचार्यमाणायां भागद्वार एकेन्द्रियजीवाः सर्वजीवानां कतिभागे वर्तन्ते इत्येव विचार्यते, न तु द्वीन्द्रियाद्यवशिष्टजीवानां कतिभागे वर्तन्त इति (२) विचार्यमाणमार्गणाऽवान्तरमार्गणाविषयभूतं द्रव्यमवान्तरमार्गणान्तरविषयभूतद्रव्यापेक्षया किय
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org