________________
श्रीअनुयोगद्वारसूत्रम् [सू०१११]
(२) णेगम-ववहाराणं अणाणुपुग्विदव्वाणं अंतरं कालतो केवचिरं होइ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। स्त्यिन्तरम्, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यत्वादिति भावः । ___अनानुपूर्वीद्रव्यान्तरकालचिन्तायाम् एगं दव्वं पडुच्च जहन्नेणं एक्कं समयं ति, इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणु-द्वयणुक-त्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकाल: प्राप्यते, उक्कोसेणं असंखेजं कालं ति तदेवानानुपूर्वीद्रव्यं यदान्येन परमाणु-व्यणुक-त्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति, तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते ।।
__ अत्राह - ननु अनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सह संयुज्यते, तत्संयुक्तं चासङ्खयेयं कालमवतिष्ठते, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्येयं कालं तिष्ठति, ततस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतर: स्कन्धो भवति तेनापि संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवं तत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपि स्कन्धा: संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्त: ? अत्रोच्यते-स्यादेवं हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेत्, एतच्च नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येयकालत्वादित्युक्तमेव । अथ ब्रूयात् - यस्मिन् स्कन्धे संयुज्यतेऽसौ परमाणु: स चेत् स्कन्धोऽसङ्ख्येयकालाद्भिद्यते तर्खेतावतैव चरितार्थ: पुद्गलसंयोगासङ्ख्येयकालनियमः, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवम्, यस्यान्येन संयोगो जातस्तस्यासङ्ख्येयकालाद् वियोगश्चिन्त्यते, यदि च परमाण्वाश्रय: स्कन्धो वियुज्यते तर्हि परमाणो: किमायातम्, तस्यान्यसंयोगस्य तदवस्थत्वात् ? तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति । कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति ज्ञायते इति चेत्, ऽवस्थानकाल उक्तः, न तु व्यणुकत्वादिना, तथा (२) अग्रेऽन्तरद्वारेऽनानुपूर्वीद्रव्यस्य (परमाणोः) अन्तरमुत्कृष्टतोऽसङ्ख्येयकालं वक्ष्यति । ततश्चेदं ज्ञायते यद् आनुपूर्वीस्कन्धत्वेन परिणतस्य द्रव्यस्य घटकीभूतैः सर्वैरपि पुद्गलप्रदेशैरुत्कृष्टतोऽसङ्ख्येयकालात्परतो वियुज्य परमाणुत्वस्वरूपं प्राप्तव्यमेवेति । अत एतावता कालेन तस्यानुपूर्वीत्वं विघटत एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org