________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सव्वद्धा । (२) एवं दोन्नि वि।
(सू० १११) (१) णेगम-ववहाराणं आणुपुव्विदव्वाणमंतरं कालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं । यदा तु स एवासङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाण्वादिना सह संयुज्यते तदोत्कृष्टतोऽसङ्ख्येयोऽवस्थितिकाल: संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीय: । अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदवस्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्यावक्तव्यकद्रव्यतया जघन्यत: समयोऽवस्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टत: अवक्तव्यकद्रव्यतयाऽसंख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति ५ ।
अन्तरद्वार प्रतिपिपादयिषुराह - नेगम-ववहाराणमित्यादि । नैगम-व्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालत: कियच्चिरं भवतीति प्रश्नः, अन्तरं व्यवधानम्, तच्च क्षेत्रतोऽपि भवति, यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यतस्तद्व्यवच्छेदार्थमुक्तं कालत: कालमाश्रित्य । तदयमत्रार्थः - आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति ?
आनुपूर्वीत्वपरित्याग-पुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः । अत्र निर्वचनम्-एगं दव्वमित्यादि, इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वा खण्डशो वियुज्य परित्यक्तानुपूर्वीभावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तनिष्पन्नमित्येवं जघन्यत: सर्वस्तोकतया एकं द्रव्यमाश्रित्याऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे समय: प्राप्यते, उत्कृष्टत: सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव भिन्नम्, भित्त्वा च ते परमाणवोऽन्येषु परमाणु-द्व्यणुक-त्र्यणुकादिषु अनन्ताणुक-स्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्त: पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद् विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकाल: प्राप्यते । नानाद्रव्याण्यधिकृत्य पुन
३७. उत्कृष्टतोऽसङ्ख्येयो... इत्यादि । त्र्यणुकोऽप्यानुपूर्वीद्रव्यं, चतुरणुकोऽप्यानुपूर्वीद्रव्यं... एवं यावदनन्ताणुकोऽपि स्कन्ध आनुपूर्वीद्रव्यम् । सर्वेष्वेतेष्वानुपूर्वीत्वं तुल्यमेव । तथा चात्रोत्कृष्टतो योऽसङ्ख्येयोऽवस्थानकाल उक्तः स किं त्र्यणुकत्वादिनाऽवस्थानकाल आनुपूर्वीत्वेन वेति विचारण एतन्निश्चीयते यत् त्र्यणुकत्वादिनाऽवस्थानकालोऽप्यसङ्ख्येयः, आनुपूर्वीत्वेनाप्यसङ्ख्येय एव, न त्वनन्त इति । कथमिति चेत् ? इत्थमिति गृहाण- (१) अत्रानुपूर्वीत्वेनैवानुपूर्वीद्रव्यस्योत्कृष्टो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org