________________
श्री अनुयोगद्वारसूत्रम् [सू०११०]
८५
(सू० ११०) (१) णेगम - ववहाराणं आणुपुव्विदव्वाइं कालओ केवचिरं होंति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च मि काचित् स्पर्शना समस्तीति, अत्र बहु वक्तव्यम्, तत्तु नोच्यते स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण ४ ।
उक्तं स्पर्शनाद्वारम्, इदानीं कालद्वारं बिभणिषुराह - नेगम - ववहाराणमित्यादि । नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कालतः कालमाश्रित्य कियच्चिरं कियन्तं कालं भवन्ति आनुपूर्वीत्वपर्यायेणावतिष्ठन्ते ? अत्रोत्तरम् - एगं दव्व - मित्यादि, इयमत्र भावना - परमाणुद्वयादेरपरैकादिपरमाणुमीलनेऽपूर्वं किञ्चिदानुपूर्वीद्रव्यं समुत्पन्नम्, ततः समयादूर्ध्वं पुनरप्येका वियुक्तेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वाऽनन्तरोक्तरूपेण वियुज्यते तदा उत्कृष्टतोऽसङ्ख्येयोऽवस्थितिकालः प्राप्यते, अनन्तं कालं पुनर्नावतिष्ठते, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेरसङ्ख्येयकालत्वादिति। नानाद्रव्याणि बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाद्धा स्थितिर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोकः स्यादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपि जघन्यादिभेदभिन्न एतावानेव स्थितिकालः । तथाहि - कश्चित् परमाणुरेकं समयमेकाकी भूत्वा ततः परमाण्वादिना अन्येन सह संयुज्यते, इत्थमेकमनानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, संस्थानं संस्थानशून्यत्वं वेति चेत् ? द्वितीयं विकल्पं गृहाण । ननु संस्थानशून्यत्वं कथमिति चेत् ? इत्थमाकाशप्रदेशस्य वृत्तत्वे चतुर्णामाकाशप्रदेशानां मध्ये शुषिरप्राप्त्याऽऽकाशप्रदेशस्य सूक्ष्मतमत्वापरपर्यायप्रकृष्टत्वहान्या प्रदेशत्वहानेः, त्र्यत्रचतुरस्रादित्वे तु यावन्त्यस्राणि तावतामंशानामवश्यमभ्युपेयत्वेन निरंशत्वहानेः संस्थानशून्यत्वमेव शरणम् । अत एव लोकप्रकाशादौ संस्थानपरिणामो द्व्यणुकादेरेवोक्तः, न तु परमाण्वादेः । युक्तञ्चैतद् ह्रसिष्ठरेखामात्रार्थमपि द्वावव्यवहितावाकाशप्रदेशावावश्यकाविति सूक्ष्मतमायतसंस्थानमपि तादृशौ द्वावाकाशप्रदेशौ त्वपेक्षत एव। तथा च न परमाणोरेव, अपि तु एकाकाशप्रदेशावगाढस्य द्व्यणुकादेरनन्ताणुकान्तस्य यस्य कस्यापि स्कन्धस्य संस्थानपरिणामशून्यत्वमेव मन्तव्यम् । ननु प्रत्येकं परमाणौ संस्थानपरिणामस्य यद्यभावस्तर्हि कथं तत्समूहनिष्पन्ने स्कन्धे तस्योत्पत्तिः ? नामूलं जायते किञ्चिदिति न्यायादिति चेत्, गुरुस्पर्शादिवदिति गृहाण । अथ यानि पुद्गलद्रव्याण्यस्माकमनुभवगोचरतामायान्ति तानि तु सांशानि ससंस्थानपरिणामान्येवेत्यस्माकं कल्पनापि तादृक्ष्वेव द्रव्येषु प्रवर्तते, न कदाचिदपि निरंशे संस्थानशून्ये परमाण्वादौ । अत एव परमाण्वादेः परिणामानामस्माकं चिन्ताऽपरपर्यायाः कल्पनाया अविषयत्वेनाचिन्त्यत्वमेव । ततश्चैकाकाशप्रदेशावगाढस्य परमाण्वादेः स परिणामोऽचिन्त्य एव भवति येन स्वावगाढ आकाशप्रदेशे षट्सु दिक्षु नैरन्तर्येणावस्थितेष्वाकाशप्रदेशेकु च प्रत्येकं पृथक् पृथक् स्पर्शसत्त्वेऽपि न सांशत्वापत्तिर्न वा षट्कोणादिसंस्थानवत्त्वापत्तिः स्यात् । अतस्तथाविधाचिन्त्यपरिणामत्वादित्युक्तमत्रेति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org