________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(२) गम - ववहाराणं अणाणुपुव्विदव्वाणं पुच्छा। एगं दव्वं पडुच्च नो संखेज्जइभागं फुसंति, असंखेज्जइभागं फुसंति, नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसंति, नो सव्वलोगं फुसंति, नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति ।
(३) एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि ।
८४
अत्र प्रतिविधीयते- इह परमाणुद्रव्यमादि-मध्या - ऽन्तादिविभागरहितं निरंशमेकस्वरूपमिष्यते, अत: सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव । अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्पबलेनाऽऽपाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्याः - क्वचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणः क्षणः स्वजनकपूर्वक्षणस्य कार्यं स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि विचार्यते - किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्यं तेनैवोत्तरक्षणस्य कारणमुत स्वरूपान्तरेण ? यद्याद्यः पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्यं तथोत्तरापेक्षा स्यात्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्यात्, एकस्वरूपत्वात् तस्येति । अथ द्वितीयः पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वारः स्यात् । अथ निरंश एवासौ ज्ञानक्षणोऽ३५ कार्याकारणरूपतत्तद्वस्तुव्यावृत्तत्वात् तथा तथा व्यपदिश्यते न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात् यतो द्रव्यतया निरंश एव परमाणु ३६ स्तथाविधाचिन्त्यपरिणामत्वात् दिषट्केन सह नैरन्तर्येणावस्थितत्वात् तत्स्पर्शक उच्यते, न पुनस्तत्रांशैः
३५. अकार्याकारणरूपतत्तद्वस्तुव्यावृत्तत्वादिति । अयमर्थः- सौगतानां मते नीलक्षणस्य नीलत्वेन यो व्यपदेशस्तत्र न नीलत्वसामान्यं कारणं, अनभ्युपगमात् अपि त्वनीलव्यावृत्तिः कारणम्। एवञ्च कस्यचिदपि वस्तुनः कार्यत्वेन कारणत्वेन वा यो व्यपदेशः, न स कार्यत्वस्वभावेन कारणत्वस्वभावेन वा अपि त्वकार्यरूपाण्यकारणरूपाणि वा यान्याकाशादिवस्तूनि तद्व्यावृत्तत्वात् तद्व्यपदेशः । विवक्षितो ज्ञानक्षणोऽप्यकार्यव्यावृत्त एव स्वपूर्वक्षणापेक्षयोत्तरक्षणवृत्तित्वनियमात्, दण्डापेक्षया खरादीनामिवाकार्यभूतानां वस्तूनां तन्नियमाभावात्। अतस्तस्य 'कार्य' मिति व्यपदेशः । तथा स अकारणव्यावृत्तोऽपि स्वोत्तरक्षणापेक्षया पूर्वक्षणवृत्तित्वनियमात्, घटापेक्षया खरादीनामिवाकारणभूतानां वस्तूनां तन्नियमाभावादिति तस्य 'कारणमिति व्यपदेशः । ततश्च यतोऽकार्यव्यावृत्तत्वस्याकारणव्यावृत्तत्वस्य चाभावरूपत्वं, अतो न ज्ञानक्षणलक्षणभावस्वरूपांशत्वं, अभावभूतस्य भावांशत्वानर्हत्वात्, अन्यथा कूर्मरोमस्यापि कूर्मांशत्वापत्तेः । अतः कार्यव्यपदेशकारणीभूतस्याकार्यव्यावृत्तत्वस्य 'कारण' व्यपदेशकारणीभूतस्याकारणव्यावृत्तत्वस्य च ज्ञानक्षणे सत्त्वेऽपि न निरंशत्वहानि: ( नानेकस्वरूपत्वमिति ।)
३६. तथाविधाचिन्त्यपरिणामत्वादिति । ननु परमाणोस्तदवगाढस्याकाशप्रदेशस्य वा किं संस्थानमिति चेत् ? न किञ्चिदिति । ननु न किञ्चिदिति कोऽर्थः ? सिद्धात्मवदनित्थस्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org