________________
श्रीअनुयोगद्वारसूत्रम् [सू०१०९] णाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा।
(३) एवं अवत्तव्वगदव्वाणि वि ।
(सू० १०९) (१) णेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्जे भागे फुसंति? सव्वलोयं फुसंति ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति, असंखेज्जइभागं वा फुसंति, संखेज्जे वा भागे फुसंति, असंखेज्जे वा भागे फुसंति, सव्वलोगं वा फुसंति, णाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । द्वितीये कपाटम्, तृतीये मन्थानम्, चतुर्थे लोकव्याप्तिं प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे मन्थानम्, सप्तमे कपाटम्, अष्टमे तु समये दण्डं संहृत्य खण्डशो भिद्यत इत्येके । अन्ये त्वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दा: समुच्चये, एवं यथासम्भवमन्यत्रापि ।
णाणादव्वाइं पडुच्चेत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्ति प्रतीत्य प्रकृत्य वा, अधिकृत्येत्यर्थः, नियमात् नियमेन सर्वलोके भवन्ति, न सङ्ख्येयादिभागेषु, यत: स लोकाकाशस्य प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु त्वेकं द्रव्यमाश्रित्य लोकस्यासङ्ख्येयभाग एव वृत्तिः, न सङ्ख्येयभागादिषु, यतोऽनानुपूर्वी तावत् परमाणुरुच्यते, स चैकाकाशप्रदेशावगाढ एव भवति, अवक्तव्यकं तु व्यणुकस्कन्धः, स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति । नानाद्रव्यभावना पूर्ववद् इति ३।। ___ उक्त क्षेत्रद्वारम्, साम्प्रतं स्पर्शनाद्वारमुच्यते - नेगम-ववहाराणमित्यादि । भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्र-स्पर्शनयोरयं विशेष: - क्षेत्रम् अवगाहाक्रान्तप्रदेशमात्रम्, स्पर्शना तु षड्दिक्कैः प्रदेशैस्तद्वहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहना-स्पर्शनयोरन्यत्रोक्तो भेदः - एगपएसोगाढं सत्तपएसा य से फुसण ( त्ति, अस्यार्थः - परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु से तस्य सप्तप्रदेशा भवति, षदिग्व्यवस्थितान् षट् प्रदेशान् यत्रावगाहस्तं च स्पृशतीत्यर्थः, एवमन्यत्रापि क्षेत्र-स्पर्शनयोर्भेदो भावनीय:। ___ अत्र सौगता: प्रेरयन्ति- यदि परमाणोः षड्दिक्स्पर्शनाऽभ्युपगम्यते तद्देकत्वमस्य हीयते, तथाहि- प्रष्टव्यमत्र किं येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ? यदि तेनैव तदा अयं पूर्वदिक्सम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्यात्, एकस्वरूपत्वात्, विभागाभावे च षड्दिक्सम्बन्धवचनमुपप्लवत एव । अथापरो विकल्प: कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्या एकत्वं विशीर्यते, उक्तं च- दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते (विंशतिका विज्ञप्तिमात्रतासिद्धि: १४) इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org