________________
८२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(२) नेगम-ववहाराणं अणाणुपुव्वीदव्वाइं किं लोगस्स संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए वा होज्जा ? एगदव्वं पडुच्च नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो खेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा, तभागमवगाह्य तिष्ठतीत्यर्थः, अन्यत्तु तदसङ्ख्येयभागमवगाहते, अपरं तु बहूँस्तत्सङ्ख्येयान् भागानवगाहते, अन्यत्तु बहूँस्तदसङ्ख्येयभागानवगाह्य वर्तते । सव्वलोए वा होज्ज त्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्ध: सकललोकावगाही स्यात् ? उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि- लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसङ्ख्यातयोजनविस्तरं सङ्ख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन ३४वृत्तं दण्डं करोति, नियमः, अचित्तमहास्कन्धानां तु नायं नियमः। तथा च योऽचित्तमहास्कन्धस्त्रसनाड्या बहिरवस्थितस्तस्य समुद्घातप्रथमसमयभाविनो दण्डस्य न चतुर्दशरज्ज्वायतत्वं, ऊर्ध्वाधश्चतुर्दशरज्जुभ्यः पूर्वमेवालोकेनोपहतत्वात् । यत्र चोपहन्यतेऽलोकेन, तदनुसारिण्यायतिर्भवति तस्य दण्डस्य | तत्तुल्यैव च द्वितीयसमयभाविनः कपाटस्य, तृतीयसमयभाविनो मन्थानस्य चेति चतुर्थसमयेऽपि न तस्य स्कन्धस्य सम्पूर्णलोकव्यापिता, अपि तु स्वस्वमूलस्थानानुसारिणी न्यूना न्यूनतरा वा। अत्र च प्रथमद्वितीययोः समययोस्तस्यावगाहना लोकस्यासङ्ख्येयतमो भाग एव । तृतीयसमये तु लोकस्यासङ्ख्येयतमो भागः, संख्येयतमो भागः, संख्येयबहुभागाः, असङ्ख्येयबहुभागाश्चेत्येवं चत्वारोऽपि विकल्पाः सम्भवन्ति। चतुर्थे तु समये काऽवगाहनेति चेत् ? एवमेव चत्वारोऽपि विकल्पाः सम्भविष्यन्तीति वयं सम्भावयामः, किन्तु न तत्र निःशङ्को निर्णयः। त्रसनाड्या बहिरवस्थितस्य समुद्घातगतस्याचित्तमहास्कन्धस्यैवं वार्ता ज्ञेया । त्रसनाड्यामन्तरेवावस्थितस्य तु केवलिसमुद्घातवदेव सा ज्ञेया। तथा च चतुर्थसमये तस्य लोकव्यापिता भवत्येव । ननु त्रसनाड्या बहिः स्थित्वा समुद्घातं गतस्याचित्तमहास्कन्धस्य चतुर्थेऽपि समय उत्कृष्टतोऽपि देशोनलोकव्यापितैव, न तु सम्पूर्णलोकव्यापितेति तु ज्ञातम् । तत्पश्चात्तस्य का वार्तेति चेत् ? न सम्यग् निर्णेतुं वयं समर्थाः। समुद्घातप्रक्रियामग्रेऽपि विस्तारयन् स पञ्चमादिसमये सम्पूर्णलोकव्यापी भवति यद्वा समुद्घातात् प्रतिनिवर्तमानः स सम्पूर्णलोकव्याप्यभूत्वैवाऽन्तराणि संहरतीत्यत्र नास्माकं कोऽपि निर्णयः ।
३४. वृत्तं दण्डं करोति... इति । अचित्तमहास्कन्धस्य स्वस्थानतोऽवगाहनामुलासङ्ख्येयभागमात्रैव भवति । ततश्चैकस्मिन्नेव समये तिर्यगसङ्ख्यातयोजनविस्तृतं सङ्ख्यातयोजनविस्तृतं वा चतुर्दशरज्ज्वायतं वृत्तं दण्डं करोतीति यदुक्तं तत्र योऽभिप्रायः स गवेषणीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org