________________
श्रीअनुयोगद्वारसूत्रम् [सू०१०७,१०८]
(सू० १०७) (१) नेगम-ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइं असंखेज्जाइं, अणताइं? नो संखेज्जाइं, नो असंखेज्जाइं, अणंताई ।
(२) एवं दोण्णि वि।
(सू० १०८) (१) णेगम-ववहाराणं आणुपुव्वीदव्वाइं लोगस्स कतिभागे होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा, सव्वलोए वा होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। नानुपूर्व्यवक्तव्यकपक्षद्वयेऽपि वाच्यम्।
कृता सत्पदप्ररूपणा, द्रव्यप्रमाणमभिधित्सुराह - नेगम-ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइमित्यादि । अयमत्र निर्वचनभावार्थ: - इहानुपूय॑नानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुन: सर्वलोके, अत: सङ्ख्येयासङ्ख्येयप्रकारद्वयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्यमिति । न च वक्तव्यं कथमसङ्ख्येये लोके अनन्तानि द्रव्याणि अवतिष्ठन्ते ? अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तर्वाकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकापरापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानम्, न चाक्षदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गात्, इत्यलं प्रपञ्चेन । ___ इदानी क्षेत्रद्वारमुच्यते-नेगम-ववहाराणमित्यादि । आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे होज्ज त्ति आर्षत्वाद्भवन्ति, अवगाहन्त इति यावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्खयेयेषु भागेषु भवन्ति, आहोश्विद्बहुष्वसङ्खयेयेषु भागेषु भवन्ति, अथ सर्वलोके भवन्तीति पञ्च पृच्छास्थानानि । अत्र निर्वचनसूत्रस्येयं भावना- इहानुपूर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एक द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् ३३किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे भागे भवति, एकं तत्सङ्ख्या
३३. किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे.... इत्यादि। केवलिसमुद्घातप्रक्रियायां केवलिन आत्मप्रदेशाः प्रथमद्वितीययोर्दण्डकपाटसमययोर्लोकस्यासङ्ख्येयतमं भागमेव व्याप्नुवन्ति । तृतीये मन्थानसमये तु लोकस्यासङ्ख्यातबहुभागान् व्याप्नुवन्ति । लोकस्य सङ्ख्येयतमं भागं सङ्ख्येयान् वा बहुभागांस्तु न कदाचिदपि व्याप्नुवन्ति । तथा च तद्वदेव समुद्धातवर्तिन एकस्याचित्तमहास्कन्धस्यापि लोकस्य सङ्ख्याततमभागप्रमाणा सङ्ख्येयबहुभागप्रमाणा वाऽवगाहना कथमुपपद्यत इति चेत् ? इत्थमिति गृहाण-केवलिनां तु सर्वेषां त्रसनाड्या अन्तरेवावस्थानमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org