________________
८०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
संतपयपरूवणया १, दव्वपमाणं च २, खेत्त ३, फुसणा य ४ । अंतरं ६, भाग ७, भाव ८, अप्पाबहुं ९, चेव ॥८॥
कालो य ५,
(सू० १०६) (१) नेगम - ववहाराणं आणुपुव्वीदव्वाइं किं अत्थि णत्थि ? नियमा
अत्थि ।
(२) नेगम - ववहाराणं अणाणुपुव्वीदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि । (३) नेगम - ववहाराणं अवत्तव्वगदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि । वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो नवप्रकारो भवति । तदेव नवविधत्वं दर्शयतितद्यथेत्युपदर्शनार्थः ।
संतपय गाहा, व्याख्या - सदर्थविषयं पदं सत्पदम्, तस्य प्ररूपणं प्रज्ञापनं सत्पदप्ररूपणम्, तस्य भाव: सत्पदप्ररूपणता, सा प्रथमं कर्तव्या । इदमुक्तं भवति - इह स्तम्भ - कुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्ग- व्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्वित् खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं पर्यालोचयितव्यम् १, तथा आनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं सङ्ख्यास्वरूपं प्ररूपणीयम् २, चः समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं तदाधारस्वरूपं प्ररूपणीयम्, किति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः ३, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः ४, तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः ५, तथा अन्तरं विवक्षितस्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयम् ६, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः ७, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीयः ८, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थप्रदेशार्थीभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम् ९, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः ।
व्यासार्थं तु ग्रन्थकारः स्वयमेव बिभणिषुराद्यावयवमधिकृत्याऽऽह - नेगम - ववहाराणामित्यादि । नैगम-व्यवहारयोरानुपूर्वीशब्दाभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि किं सन्ति नेति प्रश्नः, अत्रोत्तरम् - नियमा अत्थि त्ति। एतदुक्तं भवति - नेदं खरशृङ्गादिवदानुपूर्वीपदमसदर्थगोचरम्, ३२ अतो नियमात् सन्ति तदभिधेयानि द्रव्याणि तानि च त्र्यणुकस्कन्धादीनि पूर्वं दर्शितान्येवेति । एवम
३२. अतो नियमात् सन्तीत्यादि । पूर्वस्यानु पश्चादनुपूर्वं तस्य भाव आनुपूर्वीत्येवमानुपूर्वीपदस्य सामासिकत्वात् 'शुद्धं व्युत्पत्तिमच्च पदं सदर्थगोचरमेव भवती 'ति न्यायोऽत्र हेतुत्वेन नोक्त इति बोध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org