________________
श्री अनुयोगद्वारसूत्रम् [सू०११४]
दव्वट्टयाए असंखेज्जगुणाई ।
-
(२) पसट्टयाए गम-ववहाराणं सव्वत्थोवाइं अणाणुपुव्वीदव्वाइं अपएस ट्ठयाए, अवत्तव्वयदव्वाइं पएसट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं पएसट्टयाए अनंतगुणाई । (३) दव्वट्ट-पएसट्टयाए सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए, वृत्तिद्योतका:, इति पृष्टे ४°वाचः क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते तत्र सव्वत्थोवाई नेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए त्ति नैगम-व्यवहारयोः द्रव्यार्थतामपेक्ष्य तावदवक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थ - तामेवापेक्ष्य विशेषाधिकानि कथम् ? वस्तुस्थितिस्वाभाव्यात्, उक्तं च - एएसिं णं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं कयरे कयरेहिंतो बहुया ? गोयमा ! दुपएसिएहिंतो खंधेहिंतो परमाणुपोग्गला बहुग ( ) त्ति । तेभ्योऽपि आनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासङ्ख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यकद्रव्येषु च परमाणुलक्षणं द्व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपूर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्येकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अतः स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽसङ्ख्यातगुणानि । ननु यदि तेषु स्थानान्यनन्तान तर्ह्यनन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत्, नैवम्, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तभागवर्तित्वात् स्वभावादेव स्तोका इति न किञ्चित्तैरिह वर्द्धते, ४१ अतो वस्तुवृत्त्या किलासङ्ख्यातान्येव तेषु स्थानानि, तदपेक्षया त्वसङ्ख्यातगुणान्येव तानि, एतच्च पूर्वं भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्वं भावनीयमित्यलं विस्तरेण ।
उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानीं प्रदेशार्थतया तदेवाऽऽह-पएसट्ट्याए सव्वत्थोवाई नेगमववहाराणमित्यादि, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि
४०. वाचः क्रमवर्तित्वादित्यादि । ततश्च त्रयाणामल्पबहुत्वानां युगपत्कथनस्याशक्यत्वात्तानि क्रमशः कथ्यन्ते । ननु तथापि प्रथमं द्रव्यार्थता, तदनन्तरं प्रदेशार्थता, तदनन्तरं चोभयार्थतेत्ययमेव क्रमः किमर्थमिति चेत् ? 'यथोद्देशं निर्देश' इति न्यायादिति गृहाण । ननूद्देशेऽपि कथं स एव क्रम इति चेत् ? शृणु-यतो द्रव्यापेक्षया प्रदेशा अधिकाः, प्रदेशापेक्षया चोभये अधिकास्ततोऽयं क्रमः। यद्वा द्रव्यार्थापेक्षया यदल्पबहुत्वविचारणं तत्सुकरं, तदपेक्षया प्रदेशार्थतया यदल्पबहुत्वविचारणं तदीषत्कठिनं, तदपेक्षया चोभयार्थतया तद्विचारणं कठिनतरमतोऽयं क्रमो ज्ञेयः। यद्वा द्रव्यप्रदेशयोर्निरूपणेन विना यतस्तदुभयनिरूपणमशक्यमतः प्राग् द्रव्यप्रदेशेयोर्निरूपणं, तत्रापि यतो द्रव्यस्य प्रदेशाः भवन्त्यतो द्रव्यस्य प्राथम्यम् ।
४१. अतो वस्तुवृत्त्येति । याऽल्पबहुत्वं प्रभावयति तया वस्तुवृत्त्येत्यर्थः ।
Jain Education International
९१
For Private & Personal Use Only
www.jainelibrary.org