________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
अणाणुपुव्वदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहियाई, अवत्तव्वगदव्वाइं परसट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई, ताइं चेव पसट्टयाए अनंतगुणाई | सेतं अणुगमे । सेतं णेगम - ववहाराणं अणोवणिहिया दव्वाणुपुव्वी । सर्वेभ्यः स्तोकानि, कुत इत्याह- अपएसट्टयाए त्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हि तेषु प्रदेशाः स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति, परमाणुरप्रदेश: ( प्रशम० २०८ ) इति वचनात् । अतः सर्वस्तोकान्येतानि । ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवम्, प्रकृष्टः सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भाग: प्रदेश इति व्युत्पत्तेः प्रतिपरमाणु प्रदेशार्थताऽभ्युपगम्यत एव आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया ४२त्वप्रदेशार्थतेत्यदोषः । अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशेषाधिकानि, यत: किलासत्कल्पनया अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां तु शतम्, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात् तदेव शतमवस्थितम्, अवक्तव्यकद्रव्याणां तु प्रत्येकं द्विप्रदेशत्वाद् द्विगुणितानां विंशत्युत्तरं प्रदेशशतं जायत इति तेषामितरेभ्यः प्रदेशार्थतया ४२ विशेषाधिकत्वं भावनीयम् । आनुपूर्वीद्रव्याणि प्रदेशार्थतया ४४ अवक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्ति, कथम् ? यतो
९२
४२. त्वप्रदेशार्थतेत्यदोष इति । यद्वा यथा कर्मग्रन्थे वेदद्वाराल्पबहुत्वे चिन्त्यमाने वेदप्रतिपक्षतयाऽवेदिनामप्यल्पबहुत्वं चिन्त्यते तथाऽत्र प्रदेशार्थताप्रतिपक्षतयाऽप्रदेशार्थतयाऽपि तच्चिन्त्यतेऽतोऽदोषः ।
४३. विशेषाधिकत्वं भावनीयमिति । अत्र किञ्चिदूनद्विगुणत्वं विशेषाधिकत्वेन बोध्यम्, परमाण्वपेक्षयाऽसंङ्ख्येयभागमात्रेण न्यूनत्वाद् द्व्यणुकानाम् ।
४४. अवक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्तीति । सङ्ख्याशास्त्रानुसारेण चिन्त्यमानेऽत्रासङ्ख्येयगुणानि भवन्तीति मन्तव्यम् । तच्चैवम् पूर्वमन्तरद्वारे (सूत्र - १११ पृष्ठांक-८६) अनानुपूर्वीद्रव्यस्य परमाणोरन्तरकालोऽसङ्ख्येयः काल उक्तः । ततश्च सम्पूर्णपुद्गलास्तिकायगतस्य यस्य कस्यचिदपि परमाणुप्रदेशस्येयतेयता कालेन पुनः परमाणूभवनमावश्यकम् । ततश्च सम्पूर्णे पुद्गलास्तिकाये यावन्तः परमाणुप्रदेशास्तेषामसङ्ख्येयभागः सर्वदा परमाणुरूपेण प्राप्यत एवेति निश्चीयते। ततश्चेदमपि ज्ञायत एव यद् विवक्षितसमये यावन्तः परमाणवस्तदपेक्षया सम्पूर्णपुद्गलास्तिकायगतप्रदेशा असङ्ख्येयगुणा एव, नानन्तगुणा इति । किञ्च, पूर्वं (पृष्ठांक ८९) भागद्वारे 'एएसिं णं भंते !' इत्यादि प्रज्ञापनासूत्रं यदुक्तं तेन- अनंतप्रदेशिका स्कन्धा अल्पाः, तेभ्यः परमाणुपुद्गला अनन्तगुणाः, तेभ्यः सङ्ख्येयप्रदेशिकाः स्कन्धाः सङ्ख्येयगुणाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org