SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०११४] द्रव्यार्थतयाऽपि तावदेतानि पूर्वेभ्योऽसङ्ख्यातगुणान्युक्तानि यदा तु सङ्ख्यातप्रदेशिकस्कन्धानामसङ्ख्यातप्रदेशिकस्कन्धानामनन्ताणुकस्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम् । उक्तं प्रदेशार्थतयाऽप्यल्पबहुत्वम्, इदानीमुभयार्थतामाश्रित्य तदाह - दव्वट्ठपएसट्ठयाए इत्यादि, इहोभयार्थताधिकारेऽपि यदेवाल्पं तदेवादौ दर्श्यते, अवक्तव्यकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम्, सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए त्ति, अपरं चोभयार्थताधिकारेऽपि अणाणुपुव्वीदव्वाइं दव्वट्ट्याए इत्यादौ यदुक्तम् अपएसट्ठया तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशकत्वादिति मन्तव्यम्, ततश्चेदमुक्तं भवतिद्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या । आह- यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः, किमनयोभयार्थताचिन्तयेति ? नैवम्, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकतेभ्योऽसङ्ख्येयप्रदेशिकाः स्कन्धा असङ्ख्येयगुणाः इत्यल्पबहुत्वं ज्ञायते । ततश्चासङ्ख्येयप्रदेशिकाः स्कन्धाः समस्तपुद्गलास्तिकायस्यासङ्ख्येयेषु बहुभागेषु, तद्भिन्नाश्च परमाण्वादयः सर्वेऽप्येकस्मिन्नऽसङ्ख्यातभागमात्र एव वर्तन्ते । अतस्त्र्यणुकादारभ्योत्कृष्टसङ्ख्येयप्रदेशिकान् यावद्यान्यानुपूर्वीद्रव्याण्यनन्तप्रदेशिकानि च यान्यानुपूर्वीद्रव्याणि तेषामत्यल्पत्वेनाकिञ्चित्करत्वादसङ्ख्येयप्रदेशिकानां स्कन्धानामेव प्राधान्यादानुपूर्वीद्रव्येभ्यस्तेषां प्रदेशा असङ्ख्येयगुणा एव भवन्तीति स्पष्टम् । तथा वृत्तिकारैर्द्रव्यार्थतयाऽल्पबहुत्वे यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तभागवर्तित्वात् स्वभावादेव स्तोका इति न किञ्चित्तैरिह वर्धते, अतो वस्तुवृत्त्या किलासङ्ख्यातान्येव तेषु स्थानानि प्राप्यन्ते' इत्यादि यदुक्तं तेनाप्यसङ्ख्येयप्रदेशिकानामेव बाहुल्यस्य निश्चीयमानत्वादानुपूर्वीद्रव्येभ्यस्तत्प्रदेशा असङ्ख्येयगुणा एव निर्णीयन्ते । ततश्चात्र त्रीण्यल्पबहुत्वान्येवंप्रकाराणि ज्ञेयानि (१) द्रव्यार्थतया - अवक्तव्यकानि अल्पानि, अनानुपूर्वीणि विशेषाधिकानि (असङ्ख्यातभागमात्रेणाधिकानि), आनुपूर्वीण्यसङ्ख्येयगुणानि । (२) प्रदेशार्थतया-अनानुपूर्वीणि सर्वस्तोकानि, अवक्तव्यकानि विशेषाधिकानि ( देशोनद्विगुणानि ), आनुपूर्वीण्यसङ्ख्येयगुणानि, परमाणुप्रदेशेभ्यः समस्तपुद्गलास्तिकायोऽप्यसङ्ख्येयगुण एवेत्यस्माभिः पूर्वं निर्णीतम्, ततश्च परमाणुभ्यो ये देशोनद्विगुणास्तेभ्योऽवक्तव्यकद्रव्यप्रदेशेभ्यः, समस्तपुद्गलास्तिकायगतप्रदेशेभ्यो ये देशोनास्त आनुपूर्वीद्रव्यप्रदेशाः सुतरामसङ्ख्येयगुणा एव, न त्वनन्तगुणा इति स्पष्टम् । (३) द्रव्यप्रदेशार्थोभयतया - अवक्तव्यकद्रव्याणि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, तत्प्रदेशाः ( परमाणवः) तुल्याः, अव्यक्तव्यकद्रव्यप्रदेशा Jain Education International ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy