________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं चिन्तायां न निश्चितम्, अत्र तु ताई चेव पएसट्टयाए अणंतगुणाई इत्यनेन तन्निर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात् प्रत्येकावस्थातो भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच्च युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इति निगमयति-सेत्तं अणुगमे त्ति, विशेषाधिकाः, आनुपूर्वीद्रव्याणि असङ्ख्येयगुणानि, आनुपूर्वीद्रव्यप्रदेशा असङ्ख्येयगुणा, न त्वनन्तगुणाः, एतच्च पूर्वं निर्णीतम्। सूत्रे तु द्वयोरपि स्थानयोरनन्तगुणानीति यदृश्यते तत्सूत्रादर्शलेखकस्य कोऽपि प्रमादोऽभूदिति कल्पने श्रेयः प्रतिभाति। तदनुसारेण च वृत्तिकारैरप्यनन्तगुणत्वं प्रतिपादितं भवेदित्यपि मन्तव्यम्। ___ अत्र सप्रसङ्गमेकमन्यदप्यल्पबहुत्वं विचार्यते- (१) अनन्तप्रदेशिकाः स्कन्धा अल्पाः (२) अनन्तप्रदेशिकस्कन्धानां प्रदेशा अनन्तगुणाः (३) परमाणवोऽनन्तगुणाः (४) सङ्ख्यातप्रदेशिकाः स्कन्धाः सङ्ख्यातगुणाः (५) सङ्ख्यातप्रदेशिकस्कन्धानां प्रदेशाः सङ्ख्यातगुणाः (६) असङ्ख्येयप्रदेशिकस्कन्धा असङ्ख्यगुणाः (७) असङ्ख्येयप्रदेशिकस्कन्धानां प्रदेशा असङ्ख्येयगुणाः। अत्र तृतीयपदतश्चतुर्थपदं संङ्ख्येयगुणं, ततश्च पञ्चमपदमपि सङ्ख्येयगुणमेव, तथापि तृतीयपदात् पञ्चमपदं त्वसङ्ख्येयगुणं ज्ञेयम् । तथाहि- अनन्तानन्तानां परमाणूनां प्रथमा वर्गणा, तेभ्यो विशेषहीनानां द्वयणुकानां द्वितीया वर्गणा, तेभ्योऽपि विशेषहीनानां त्र्यणुकानां तृतीया वर्गणा, एवमेव विशेषहीन-विशेषहीन-विशेषहीनक्रमेण चतुर्थ्यादिका अनन्तानन्ततमचरमान्ता वर्गणा ज्ञेयाः। किञ्च प्रथमायां वर्गणायां यावन्तः परमाणवस्तदर्धाः स्कन्धा असङ्ख्येयतमायां वर्गणायां प्राप्यन्ते। सा च वर्गणा द्विगुणहानिस्थानमुच्यते । द्विगुणहानिस्थानान्यप्यनन्तानि प्राप्यन्ते। द्वयोर्द्विगुणहानिस्थानयोर्मध्ये यावत्यो वर्गणास्ता अन्तरमुच्यते। यतश्चैतदन्तरमसङ्ख्येयप्रमाणमतो निश्चीयते यद्-अव्यवहितोत्तरवर्तिन्यां वर्गणायां यद् विशेषहीनत्वं स्कन्धानां प्राप्यते तदसङ्ख्येयभागमात्रेण ज्ञेयमिति। ततश्चोत्कृष्टसङ्ख्येयतमायां वर्गणायां प्रथमवर्गणागतपरमाणुराश्यपेक्षयाऽसङ्ख्येयभागमात्रहीना एव स्कन्धाः प्राप्यन्ते। यतश्चायमसङ्ख्याततमो भागो मूलराश्यपेक्षयाऽत्यल्पस्ततो यदि न विवक्ष्यते, तदा प्रथमवर्गणागतपरमाणुराशितुल्या एव स्कन्धा उत्कृष्टसङ्ख्येयतमां वर्गणां यावत् प्रत्येक वर्गणायां प्राप्यन्ते। ततश्च प्रथमायां वर्गणायां परमाणूनां यो राशिस्तस्य यदि 'प' इति संज्ञा क्रियते, उत्कृष्टसङ्ख्यातस्य च यदि 'उ' इति संज्ञा क्रियते तदा द्वितीयादिउत्कृष्टसङ्ख्याततमान्तवर्गणागतस्कन्धानां प्रदेशाः क्रमशः २प, ३प, ४प... इत्येवंक्रमेण उ x प यावत् प्राप्यन्ते। ततश्च सङ्ख्येयप्रदेशिकसमस्तस्कन्धगतप्रदेशानां राशिः २प + ३प + ४प... + उ x प इति यद्वा (२+३ +४+... +उ) x प इति प्राप्यते। अस्य राशेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org