________________
श्रीअनुयोगद्वारसूत्रम् [सू०११५,११६]
(सू० ११५) से किं तं संगहस्स अणोवणिहिया दव्वाणुपुव्वी ? संगहस्स अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्ता । तंजहा-अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५ ।
(सू० ११६) से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणयातिपएसिया आणुपुव्वी चउप्पएसिया आणुपुव्वी जाव दसपएसिया आणुपुव्वी संखिज्जपएसिया आणुपुव्वी, असंखिज्जपएसिया आणुपुव्वी, अणंतपदेसिया आणुपुव्वी, परमाणुपोग्गला अणाणुपुव्वी, दुपदेसिया अवत्तव्वए। सेतं संगहस्स अट्ठपयपरूवणया। तद्भणने च समर्थिता नैगम-व्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति- सेत्तं नेगमेत्यादि । ___ व्याख्याता नैगम-व्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह- से किं तमित्यादि । सामान्यमात्रसंग्रहणशील: संग्रहो नय:, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः । आह-ननु नैगम-संग्रह-व्यवहारे (तत्वार्थ० १।३३) त्यादिसूत्रक्रमप्रामाण्यान्नैगमानन्तरं संग्रहस्योपन्यासो युक्तः, तत् किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यते ? इति, सत्यम्, किन्तु नैगम-व्यवहारयोरत्र तुल्यमतत्वाल्लाघवार्थं युगपत् तन्निर्देशं कृत्वा पश्चात् संग्रहो निर्दिष्ट इत्यदोषः ।
अत्र निर्वचनमाह-संगहस्स अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्त त्ति संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी प्राग्निरूपितशब्दार्था पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता। तदेव दर्शयति- तंजहेत्यादि। अत्र व्याख्या पूर्ववदेव यावत् तिपएसिया आणुपुव्वी इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी, अनेके त्रिप्रदेशिका आनुपूर्व्य इत्याधुक्तम्, अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्तिमयमभिधत्ते त्रिप्रदेशिका: स्कन्धास्त्रिप्रदेशिकत्वसामान्याद् व्यतिरेकि णोऽव्यतिरेकिणो वा ? यद्याद्य: पक्षस्तर्हि ते त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकादिवदिति । अथ चरम: पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरेकात्, तत्स्वरूपवत्, सामान्य चैकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवानुपूर्वीति अविशुद्धसंग्रहनयमतम् । ४५विशुद्धसंग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामनन्ताणु'प' संज्ञितस्य सकलपरमाणुराशेरसङ्ख्येयगुणत्वं स्पष्टमेव, (१ + उ) इत्यस्य राशेरपि जघन्यासङ्ख्येयत्वेन (२+३+४+...+उ) इत्यस्य राशेः सुतरामसङ्ख्येयरूपत्वात्।
४५. विशुद्धसङ्ग्रहनयमतेनेति । आनुपूर्वीत्वादिविचारस्य प्रस्तुत्वादस्याभिप्रायस्य विशुद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org