________________
श्री अनुयोगद्वारसूत्रम् [सू०३५९, ३६०]
२२७
( सू० ३५९) एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो, दो पाया दुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं ।
( सू० ३६०) एतेणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य, परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः । मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषका एक: सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा क तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष् दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावात् द्वादश अम्रयः कोटयो यत्र तद् द्वादशाम्रिकम्, कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम्, अधिकरणि: सुवर्णकारोपकरणम्, तत्संस्थानेन संस्थितं तत्सदृशाकारम्, समचतुरस्रमिति यावत्, प्रज्ञप्तं प्ररूपितम् । तस्य काकणीरत्नस्यैकैका कोटिरुच्छ्रयाङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यम्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायाम विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्ध्वकृता आयामं प्रतिपद्यते व तिर्यगू व्यवस्थापिता विष्कम्भभाग् भवतीत्यायाम-विष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धम् । यच्चान्यत्र चउरंगुलप्पमाणा सुवण्णवरकागणी नेया ( बृहत्सं० ३०२ ) इति श्रूयते तन्मतान्तरं संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति ।
तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्यार्द्धाङ्गुलम् । कथमिदम् ? उच्यतेश्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ट्यधिकशताङ्गुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षया अर्द्धाङ्गुलमेव भवति, येषां तु मतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमान: स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात् तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च पञ्च नवभागा भवन्ति १५, अष्टषष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org