________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ३५७ ) एएसि णं सूचीअंगुल - पयरंगुल -घणंगुलाणं कतरे कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घणंगले असंखेजगुणे । सेतं उस्सेहंगुले ।
( सू० ३५८ ) से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो चाउरंतचक्कवहिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्टकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अर्द्धगुलं, तं सहस्सगुणं पमाणंगुलं भवति ।
२२६
महाशुक्र-सहस्रारयोश्चत्वारः, आनत-प्राणता-ऽऽरणा - S -ऽच्युतेषु त्रयः । ग्रैवेयकेषु द्वौ, उत्तरवैक्रिया तु न वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि । अनुत्तरविमानेषु त्वेको हस्तः । तदेवमेषावगाहना सर्वाऽप्युत्सेधाङ्गुलेन मीयते । एतच्च सूची - प्रतर - घनभेदात् त्रिविधमात्मागुलवद् भावनीयम् । उक्तमुत्सेधाङ्गुलम् ।
अथ प्रमाणाङ्गुलं विवक्षुराह से किं तं पमाणंगुले इत्यादि । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलम्, नातः परं बृहत्तरमङ्गुलमस्तीति भावः । यदि वा समस्तलोकव्यवहार-राज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद् युगादिदेवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम् । एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यँस्तद्द्वारेण निरूपयितुमाह - एगमेस्स णं रण्णो इत्यादि, एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तच्छ्रमणस्य भगवतो महा-वीरस्यार्द्धाङ्गुलम्, तत्सहस्रगुणं प्रमाणाङ्गुलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् । निरुपचरितराजशब्दविषयज्ञापनार्थं राज-ग्रहणम् ।
आसीद्येन तैरेका विवक्षा गृहीता, परंतु पश्चादन्यस्य सूत्रस्य रचनाकाले प्रस्तावान्तरं तथाऽभवद् यथाऽन्यैव विवक्षा ग्राह्या स्यादिति तैस्तत्सूत्रं तया विवक्षया सूत्रित मिति मन्तव्यमेव । 'न च ते ( पूर्वऋषयः) पर्यनुयोगमर्हन्ति' इत्यादिना तीर्थान्तरीयैरपीदमेव सूचितम् । प्रस्तुतेऽपि द्विनामसूत्रे नारकादीनां द्वैविध्यं यदुक्तं, अवगाहनासूत्रे तु तन्निषेधो यत्सूचितः, तेन 'नारकादयः करणापेक्षया द्विविधा भवन्ति, लब्ध्यपेक्षया तु पर्याप्ता एव भवन्ति' इत्येवं शिष्यबुद्धिर्व्युत्पादिता भवत्येव । एवं द्विनामसूत्रे सम्मूर्छितमनुष्याणां द्वैविध्यं यदुक्तं, अवगाहनासूत्रेऽत्र तु तन्निषेधो यत्सूचितः तेन 'सम्मूर्छितमनुष्याः करणापेक्षया द्विविधा भवन्ति, लब्ध्यपेक्षया त्वपर्याप्ता एव भवन्ति' इत्येवं शिष्यबुद्धेर्व्युत्पादना भवत्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org