________________
२२८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्तोव्वेह-परिक्खेवा मविजंति । तु भगवान् विंशत्यधिकमगुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः १३, अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यैकमुत्सेधाङ्गुलं भगवदात्माङ्गुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते ? उच्यतेभरतश्चक्रवर्ती प्रमाणागुलेनात्माङ्गुलेन च किल विंशं शतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् । उत्सेधाङ्गुलेन तु पञ्चधनु:शतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यन्ते, अत: सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाजुलात् प्रमाणामुलं चतु:शतगुणमेव स्यात् कथ सहस्रगुणमुक्तम् ? सत्यम्, किन्तु १०७प्रमाणाङ्गुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाच्चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधागुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अगुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते । इदमुक्तं भवति- अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिम्र: श्रेणय: कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतु:शतमानैव विष्कम्भतस्त्व ङ्गुलम्, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽगुलप्रमाण: संपद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गुलस्य सूचि: सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाङ्गुलात् तत् सहस्रगुणमुक्तम्, वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वी-पर्वत-विमानादिमानान्यनेनैव चतुःशतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अगुलविष्कम्भया सूच्येति । शेषं
१०७. प्रमाणामुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्तीत्यादि । यद्वाऽयमप्यत्र समाधानप्रकारः सम्भवेन्नवेति गीताथैर्विचारणीयम् । तद्यथा-उत्सेधामुलादिप्रमाणत्वेन शास्त्रेषु यत्कथितं न तत्तत्तदगुलायामप्रमाणं, अयम्भावः-अङ्गुलत्वेनात्रागुष्ठोऽभिप्रेतः, तत्राप्यङ्गुष्ठमूलादग्रभागं यावद्य आयामो न तत्प्रमाणमगुलत्वेनोक्तं, किन्त्वगुष्ठस्योर्ध्वाधोभागवर्तिनोयोर्भागयोर्यत् सन्धिस्थानं वेष्टकं (वेढो इति भाषायां) उच्यते, तत्स्थानीयविस्तारस्य यत्प्रमाणं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org