________________
श्रीअनुयोगद्वारसूत्रम् [सू०३६१]
२२९ (सू० ३६१) से समासओ तिविहे पण्णत्ते । तंजहा-सेढीअंगुले पयरंगुले घणंगुले। असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेजएणं लोगो गुणितो संखेज्जा लोगा, असंखेजएणं लोगो गुणिओ असंखेजा लोगा। भावितार्थं यावत् पुढवीणं ति रत्नप्रभादीनाम्, कंडाणं ति रत्नकाण्डादीनाम्, पातालाणं ति पातालकलशानाम्, भवणाणं ति भवनपत्यावासादीनां भवणपत्थडाणं ति भवनप्रस्तटा नरकप्रस्तटान्तरे, तेषाम्, निरयाणं ति नरकावासानाम्, निरयावलियाणं ति नरकावासपङ्क्तीनाम्, निरयपत्थडाणं ति तेरेक्कारस नव सत्त पंच तिन्नि य तहेव एक्को य(बृहत्संग्रहणी० २५३) इत्यादिना प्रतिपादितानां नरकप्रस्तटानाम्, शेषं प्रतीतम्, नवरं टंकाणं ति छिन्नटङ्कानाम्, कूडाणं ति रत्नकूटादीनाम्, सेलाणं ति मुण्डपर्वतानाम्, सिहरीणं ति पर्वतानामेव शिखरवताम्, पब्भाराणं ति तेषामेवेषन्नतानाम्, वेलाणं ति जलधिवेलाविषयभूमीनाम्, उद्वेधो भूमिमध्येऽवगाहः, तदेवम् अंगुल विहत्थि रयणीत्यादिगाथोपन्यस्तान्यगुलादीनि योजनावसानानि पदानि व्याख्यातानि ।
साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह - असंखेजाओ जोयणकोडाकोडीओ सेढि त्ति अनन्तरनिर्णीतप्रमाणागुलेन यद्योजनं तेन योजनेनासङ्ख्येया योजनकोटीकोटय: संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति। कथं पुनर्लोक: संवर्त्य समचतुरस्रीक्रियते ? उच्यते- इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृत:, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपरि तु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु तदङ्गुलत्वेनोच्यते । एतस्माद्विस्तारादगुष्ठस्यायाम उत्तमपुरुषाणां सार्धद्विगुणो भवेदिति वयं सम्भावयामः । (अस्माकं त्वगुष्ठविस्तारात्तदायामः प्रायस्त्रिगुणो भवतीति ध्येयम्) । ततश्चोत्सेधाङ्गुलत्वेनोक्तादुत्सेधागुलविस्तारप्रमाणात् प्रमाणाङ्गुलत्वेनाभिप्रेतः प्रमाणाङ्गुलविस्तारश्चतुःशतगुणो भवति । तदपेक्षया च तदायामस्य सार्धद्विगुणत्वेनोत्सेधाङ्गुलविस्तारात् सहस्रगुणत्वं स्पष्टमेव । तदयमत्र सार उपलब्धः-उत्सेधागुलविस्तारात् प्रमाणागुलविस्तारश्चतुःशतगुणः, तदायामश्च सहस्रगुण इति । तथा शास्त्रीयव्यवहारेषूत्सेधाङ्गुलत्वेन तद्विस्तार एव व्यवह्रियते, यथा भरतचक्रवर्तिन उत्सेधाङ्गुलेन पञ्चधनुःशतमानत्वं यदुक्तं तद्विस्तारापेक्षयैव, न तु तदायामापेक्षया । ततश्च प्रमाणागुलेन यन्मानं प्रोक्तं, यथा जम्बूद्वीपस्य लक्षयोजनमानो विष्कम्भः, स प्रमाणागुलविस्तारापेक्षयैव ग्राह्यः, प्रमाणामुलतुल्यो भरतचक्रवर्तिनो य आत्मागुलस्तद्विस्तारापेक्षयैव ग्राह्यः, न तु तदायामापेक्षयेत्यर्थः । अतश्चतुःशतगुणत्वस्यैव मुख्यत्वं ज्ञेयम्, न तु सहस्रगुणत्वस्य । अत एव वृत्तिकारैरपि 'वस्तुतस्तु चतुःशतगुणमेव...' इत्यादि तथा 'न तु सहस्रगुणयाऽगुलविष्कम्भया सूच्या' इत्याधुक्तं वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org