________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ३६२ ) एतेसि णं सेढीअंगुल - पयरंगुल-घणंगुलाणं कतरे कतरेहिंतो अपे वा बहु वा तुले वा विसेसाहिए वा ? सव्वत्थोवे सेढिअंगुले, पयरंगुले असंखेज्जगुणे, घणंगले असंखेज्जगुणे । सेतं पमाणंगुले । सेतं विभागनिप्पण्णे । सेतं खेत्तप्पमाणे । क्वचित् कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् । एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते । तथाहि- रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वर्त्यधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्ज्वसङ्ख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा सा एवोत्तरपार्श्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्यार्द्धं देशोनरज्जुचतुष्टयविस्तीर्णं सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोSपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते । इदानीमुपरितनलोकार्द्धं संवर्त्यते तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसम अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्ध्या गृहीत्वा तस्या एवोत्तरपार्श्वे पूवोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते एवं च कृते उपरितनं लोकस्यार्द्धं द्वाभ्यामङ्गुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम् । इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहम्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्द्द्वयाधिकत्वमुक्तं देशोनसप्तरज्जूच्छ्रितम्, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्य - संवर्तितलोकार्द्धस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तत् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्द्धवायतं संघात्यते, एवं च सातिरेकाः पञ्च रज्जव: क्वचिद्बाहल्यं सिद्ध्यति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्याद्देशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादर्द्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतच्चतुरस्रीकृतनभः खण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षड् रज्जवो भवन्ति, व्यवहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयाम-विष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्या, तदेवं
२३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org