________________
श्री अनुयोगद्वारसूत्रम् [सू०३६३, ३६४ ]
२३१
(सू० ३६३) से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते । तंजहापदेसनिप्पण्णे य विभागनिप्पण्णे य ।
(सू० ३६४) से किं तं पदेसनिप्पण्णे ? पदेसनिप्पण्णे एगसमयद्वितीए दुसमयट्ठितीए तिसमयद्वितीए जाव असंखेज्जसमयईिए । सेतं पदेसनिप्पणे । व्यवहारनयमतेनायाम-विष्कम्भ-बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयम्, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः । तदियं सप्तरज्ज्वायामत्वात् प्रमाणागुलतोऽसङ्खयेययोजनकोटीकोट्यायता एकप्रादेशिकी श्रेणि: । सा च तयैव गुणित: । यथोक्तश्रेण्या गुणितो लोकः । अयमपि सङ्खयेयेन राशिना गुणितः सङ्खयेया लोका:, असङ्खयेयेन तु राशिना समाहतोऽसङ्ख्या लोकाः, अनन्तैश्च लोकैरलोकः । नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता अलोकेन तु न किञ्चित् प्रमीयते इति कथं तस्य प्रमाणता ? उच्यते - यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात् । तदेवम् अंगुल विहत्थि रयणीत्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति ।
अथ कालप्रमाणमुच्यते - से किं तं कालप्पमाणे इत्यादि गतार्थमेव, नवरमिह प्रदेशा: कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम्, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा कालप्रदेशेन निष्पन्नः, द्विसमयस्थितिस्तु द्वाभ्याम्, एवं यावदसङ्खयेयसमयस्थितिकोऽसङ्घयेयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति । प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया। विभागनिष्पन्नं तु समयादि, तथा चाह- समयावलिय गाहा । एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थं तावदाह से किं तमित्यादि, अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरवतीं व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः । तदेवाहसे जहानाम इत्यादि, स कश्चित् यथानामको यत्प्रकारनामा, , देवदत्तादिनामेत्यर्थः, तुण्णागदारए सूचिक इत्यर्थः, स्यात् भवेत्, य: किमित्याह - तरुणादिविशेषणविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा सयराहं झटिति कृत्वा हस्तमात्रमपसारयेत् पाटयेदिति सण्टङ्कः, अथवा पूर्ववत्, यथेत्युपप्रदर्शने, नामेति सम्भावनायाम्, ए इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत् संभाव्यते तुण्णागदारको यस्तरुणादिविशेषणः स्यात् कदाचित् पटसाटिकां पट्टाटिकां वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org