________________
२३२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३६५) से किं तं विभागनिप्पण्णे ? विभागनिप्पण्णे - समया-ऽऽवलिय-मुहुत्ता दिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परिअट्टा ॥१०३॥
(सू० ३६६) से किं तं समए ? समयस्स णं परूवणं करिस्सामि-से जहाणामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पायपास-पिटुंतरोरुपरिणते तलजमलजुयल-परिघणिभबाहू चम्मेदृग-दुहण-मुट्ठियसमाहयनिचियगत्तकाये लंघण-पवण-जइणवायामसमत्थे उरस्सबलसमण्णागए छए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा । तत्थ चोयए पण्णवयं एवं वयासी-जेणं कालेणं तेणं गृहीत्वा झटिति हस्तमात्रमपसारयेत् पाटयेदिति तथैव सम्बन्धः । तत्र तरुण: प्रवर्द्धमानवयाः। आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्ते:, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः, अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते । बलं सामर्थ्यं तदस्यास्तीति बलवान् । युगं सुषमदुष्षमादिकाल:, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् । जुवाणे त्ति युवा यौवनस्थ:, प्राप्तवया एष इत्येवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवान:, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् । अल्पशब्दोऽभाववचन:, अल्प आतङ्को रोगो यस्य स तथा, निरातङ्क इत्यर्थः । स्थिरः प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो हस्ताग्रं यस्य स तथा । दृढं पाणि-पादं यस्य पार्टी पृष्ठ्यन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः। तलयमलयुगलपरिघणिभबाहुः, तलौ तालवृक्षौ, तयोर्यमलं समश्रेणीकं यद् युगलं द्वयं परिघश्च अर्गला तन्निभौ तत्सदृशौ दीर्घ-सरल-पीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका-द्रुघण-मुष्टिकसमाहतनिचितगात्रकाय:, चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव । औरस्यबलसमन्वागत आन्तरोत्साहवीर्ययुक्तः। व्यायामवत्तां दर्शयति- लङ्घन-प्लवनजवनव्यायामसमर्थः, जवनशब्दः शीघ्रवचन:। छेक: प्रयोगज्ञ: । दक्ष: शीघ्रकारी । प्राप्तार्थ: अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी । मेधावी सकृच्छ्रुतदृष्टकर्मज्ञः । निपुण उपायारम्भकः। निपुणशिल्पोपगत: सूक्ष्मशिल्पसमन्वितः । एवंविधो ह्यल्पेनैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org